________________
५८
काव्यमाला |
कुम्भीनसी तदबलाथ पृथां नृपं च दैन्यान्ननाम तदमुच्यत सोऽर्जुनेन ॥ ६६ ॥
मैत्र्यं चकार सह तेन पृथातनूजस्तस्मै ददौ दहनमन्त्रमयं च शस्त्रम् । पार्थाय सोऽप्यदित विश्वदृशं च विद्यां
मेने युधे च हयपञ्चशतीमभेद्याम् ॥ ६७ ॥
उत्कोचकाख्यशुचितीर्थपतिं विधाय
धौम्यं पुरोहितमभी सुहृदोऽथ वाचा | वाचस्पतिव्यतिकरप्रहतोपसर्गा
न्स्वर्गौकसोऽप्यजगणन्न तृणाय पार्थाः ॥ ६८ ॥
गत्वा पुरे द्रुपदभूमिधवस्य मात्रां मात्रा समं किल कुलालगृहं विमुच्य । ते जम्मुराशु रमणीपणभूतराधा
वेधव्यधाय नृपसंसदि षोडशेऽह्नि ॥ ६९ ॥ वीक्ष्य स्वयंवरणमण्डलमग्रतोऽथ
व्याचष्ट धर्मतनुजोऽनुजमण्डलाय । स्वर्गोऽवतारित इव द्रुपदेन सोऽयं
न्यक्कुर्वता पुरुषकारवशेन दैवम् ॥ ७० ॥ तस्यास्ततेषु निजकुण्डभुवो विवाह
यज्ञेषु रत्नमयमञ्चचयच्छलेन ।
आश्चर्यमग्नहृदयः स्वयमत्र चित्र -
विन्यस्तमूर्तिरिव पश्यति पावकोऽपि ॥ ७१ ॥
आकारितासु चलचन्दनमालयैव
भ्रूसंज्ञया नृपतिपङ्क्तिषु मण्डपोऽयम् ।
कन्यानुरूपमिह भूपमवीक्ष्य कंचि
दुच्चैः समाह्वयति केतुकरैः सुरेन्द्रान् ॥ ७२ ॥
Aho ! Shrutgyanam