________________
१ आदिपर्व - ४ सर्गः ]
बालभारतम् ।
तया विरहितो राजा निशयेव निशाकरः । म्लानिं संप्राप तापेन तेजसेव विवस्वतः ॥ २९ ॥ अपि स्त्रीभ्रूणहत्याभिर्न शोषं याति जाह्नवी । कर्मसाक्षी न किं भानुरेनां शोषयते न यत् ॥ २६ ॥ बिभर्तु शिरसा शंभुरेनां भस्मास्थिभूषणः ।
पा तव क्रमेणापि स्पृशतः पुरुषोत्तम ॥ २७ ॥ जलस्पर्शेन लोकानां पातकं याति दूरतः । अस्याः स्वयं कृतैः पापैरद्भुतैरभितो जितम् ॥ २८ ॥ ईदृक्पापकृतः स्थानं नरकेऽपि न विद्यते । एतत्तमृतं जन्तुं कालस्तद्ब्रह्मणेऽर्पयेत् ॥ २९ ॥ किमेषा न विशेषेण पातकस्तोमकारिणी । यमुनापि समुद्रोऽपि श्यामौ यदभिषङ्गतः ॥ ३० ॥ स दूषयन्नदीमेतामेतादृग्दुःखभागिति । सचिवैः शुचिवैदग्ध्यप्रतिभैरिति भाषितः ॥ ३१ ॥ मापतः पातके वन्द्यां जाह्नवीमिति दूषयन् । स्वेच्छारोधेन यातासौ प्राच्यं तद्वचनं स्मर ॥ ३२ ॥ प्रतिबुद्ध्येति शुद्धात्मा सचिवानां वचोभरैः । क्षमस्वेत्याशु संभाष्य गङ्गां धाम जगाम सः ॥ ३३ ॥ कालेन विरहनेष रथी भागीरथीतटे । ददर्श दर्शनीयाङ्गमेकमेकः कुमारकम् || ३४ || मूर्त दर्प ने सर्पन्तं धीरं वीरं नु वा रसम् । तृणाय त्रिजगद्वीर्यं मन्यमानं दृशा भृशम् ॥ २५ ॥ जितेन गौरवायोम्ना किलोपचरितं चिरात् । ताडङ्कचन्द्रचण्डांशुहारमौक्तिकतारकैः ॥ ३६ ॥ कर्णान्ताकृष्टकोदण्डकराङ्गुलिनखावलौ ।
प्रतिबिम्बमुखं गङ्गासमीपे किल षण्मुखम् || ३७ ॥
१. 'तु' ग.
Aho ! Shrutgyanam
३१