________________
काव्यमाला।
पीत्वा प्रशस्यमौधस्यमस्या मानिनि मानवः । दशवर्षसहस्राणि यावज्जीवति निर्जरः ॥ १३ ॥ उशीनरोशिसुतां खसखीमजिनावतीम् । पयः पाययितुं साथ गां भी तामहारयत् ॥ १४ ॥ तामवीक्ष्य वने धेनुं ज्ञात्वा च ज्ञानतो मुनिः । वसन्तु गर्भवासेऽमी वसूनिति स शप्तवान् ॥ १५ ॥ अथ भक्तिभराभुग्नभाला भूवासभीरवः ।। अनीनमन्नमी दीनाः सापदः शापदं मुनिम् ॥ १६ ॥ तानुवाच मुदा वाचं वाचंयमशिरोमणिः । वस्था गच्छत हे वत्साः प्रार्थयध्वं मरुद्भुनीम् ॥ १७ ॥ एषा यथा वधूवेषा नृपमाश्रित्य शंतनुम् । जातानेव स्वयं गङ्गा स्ववाहे वः प्रवाहयेत् ॥ १८ ॥ सुरोऽप्यसुरवल्लोभभासुरः सुरभिं मम । यो जहार विहारं स द्यौश्चिरं सृजतु क्षितौ ॥ १९ ॥ अथ तैरर्थिता गङ्गा मृगीदृशमदीदृशत् । आत्मानमात्मनस्तीरे खेलतस्तस्य शंतनोः ॥ २० ॥
(एकादशभिः कुलकम्) मान्मथैर्मथितो बाणैरथ तां रथिनां वरः। ययाचे पार्थिवोत्तंसः कंसशत्रुरिव श्रियम् ॥ २१ ॥ अहं कृत्यमकृत्यं वा निषिद्धा यदि तन्वती । तद्यास्यामीति निर्बन्धवती तेनेयमाहता ॥ २२ ॥ जातमात्रान्सुताशापैरवतीर्णान्क्रमाद्वसून् । गङ्गासौ सप्त गङ्गान्तः क्षित्वा शापादमूमुचत् ॥ २३ ॥
तनुजं मनुजेन्द्रेण कष्टतः स्पष्टमष्टमम् । . क्षिपन्ती वारिता वारि सपुत्रा खयमप्यगात् ॥ २४ ॥ १. 'भर्तारमहारयत्' ग. २. 'तमुवाच' ख, 'तदोवाच' ग. ३. 'स्वच्छाः ' ख-ग. ४. 'दुश्चिरं' ग.
Aho! Shrutgyanam