________________
१६मौशलपर्व-१सर्गः] बालभारतम् ।
राज्ये वज्रमिह न्यस्य गते दुःखिनि फाल्गुने । सत्यभामादयो देव्यः कृशानुं विविशुः शुचा ॥ ५० ॥ श्रीविष्णुव्ययगोपालपराभवमहाशुचम् । . हस्तिनापुरवम॑स्थमेत्य व्यासोऽर्जुनं जगौ ॥ ११ ॥ मित्रगोत्रप्रभाभूतिप्रभावविभुता हृता । विडम्बितो न कालेन कुत्र कः पुत्र मा मुहः ॥ १२ ॥ हराद्यैरप्यनिग्राह्यो लसदकॆन्दुदीपकः । सर्व हरति सर्वस्य कालोऽयं पश्यतोहरः ॥ ५३ ॥ सूर्येन्दुचक्रविक्रीडदनित्यत्वरथोऽङ्गिनाम् । अधर्मविजयी कालो हरत्यर्थानसूनपि ॥ १४ ॥ जगद्विडम्बनायैकनटं कौतूहली हसन् । अनित्यतानटीकान्तं कालमालोकते कृती ॥ ५५ ॥ पर्यन्तविरसा भावा न भवेयुभवे यदि । तत्परोक्षसुखे साक्षाद्दुःखे तपसि कः स्फुरेत् ॥ १६ ॥ यदुषु मुशलपातप्रेसितैरात्मनि क्ष्मा
धरवनचरगोपक्रीडितैश्च प्रतप्तः । इति मुनिपतिवाणीपुण्यपीयूषसिक्तो
___ गजनगरमगच्छन्मध्यमः पाण्डुपुत्रः ॥ १७ ॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः
पादाब्जभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती । तजिह्वाञ्चललोलतल्पतरलबाहीस्मिते षोडशं पर्वतत्किल बालभारतमहाकाव्येऽगलन्मौशलम् ॥ १८ ॥
इति श्रीवालभारते महाकाव्ये षोडशं मौशलपर्व समाप्तम् ।
१. 'वजे राज्य' ख-ग. २ 'रप्यनुप्रा' ख. ३. 'प्रेषितै' ख. ४. 'ब्राह्माशते' क; 'ब्राह्मीस्मृते ख.
Aho! Shrutgyanam