________________
१६मौशलपर्व-१सर्गः] बालभारतम् ।
निजे ज्योतिषि संपृक्तो लुब्धकेन पदस्तले । कृष्णसारधिया कृष्णो हतस्तीवेण पत्रिणा ॥ २५ ॥ सुरसिद्धर्षिगन्धर्वैः श्रिया च प्रीतितत्परैः । पूज्यमानोऽविशद्धाम नित्यं नारायणाभिधम् ॥ २६ ॥ विष्वन्दिग्वृन्दमुद्दयोत्य भास्वतीव गते हरौ। बभूव भुवनं क्षुभ्यत्तमोमयमिवाभितः ॥ २७ ॥ इहान्तरे यदूच्छेदकथामाकर्ण्य दारुकात् । शोकं दैन्यं भयं पार्था निर्माथा इव भेजिरे ॥ २८ ॥ अथ क्ष्मापगिरा गत्वा दारुकेण सहार्जुनः।। विवेश द्वारकां द्रष्टुं सशोकं जनकं हरेः ॥ २९ ॥ नष्टवीरगणां नष्टेन्द्रियां बन्धुतनूमिव । पश्यन्पुरी ययौ पार्थः परां शोकस्य भूमिकाम् ॥ ३० ॥ सुभद्रेश कथं दीनाः स्थास्याम इति सर्वतः । पूत्कुर्वद्भिवृतोऽभ्येत्य जिष्णुर्वृष्णिवधूजनैः ॥ ३१ ॥ पतितं भुवि हा पुत्र हा पुत्रेति प्रलापिनम् । वसुदेवं नरः पश्यन्पपात च रुरोद च ॥ ३२ ॥ (युग्मम्) मृगैः सिंहा इवास्माभिर्यत्प्रसादाजिता द्विषः । स गतः कोऽधुनास्माकं शरणं रणसंकटे ॥ ३३ ॥ स्तौमि तान्यादवाञ्जग्मुर्ये दिवि प्रथमं हरेः । योग्यान्यस्यापि कस्यापि धिनस्तेन विनाधुना ॥ ३४ ॥ हा जनार्दन हा राम हा शैनेय हहा स्मर । भवन्तः क गताः प्राप्तमालपन्त्यपि मां न किम् ॥ ३५ ॥ इति प्रलापैः पतितो नरो रोदितदिङ्मुखः। सर्वगान्रोदयामास योगीन्द्रानप्यगोचरान् ॥ ३६ ॥ यत्रानैषीन्निशां पूर्व लीलागीतेन फाल्गुनः ।
तत्रैव तां निशां निन्ये स्त्रीणां क्रन्देन विग्विधिः ॥ ३७ ॥ १. 'फूत्कुर्वद्भि' क-ख-ग.
Aho! Shrutgyanam