________________
१६मौशलपर्व-१सर्गः) बालभारतम् ।
मौशलपर्व। प्रध्याय तनुवित्तानां सत्यसूनुरनित्यताम् । धर्माधाने च दाने च व्यदधादरमादरम् ॥ १ ॥ ददौ धर्माय धर्मैकचतुरश्चतुरः क्रमान् । चक्रे दानश्च निःशेषामवनीमनीपकाम् ॥ २॥ वसुधां वसुधाराभिनित्यमित्यस्य सिञ्चतः । श्रयतस्तत्फलं श्रेयः षट्त्रिंशदगमत्समाः ॥ ३॥ पुरी द्वारवती जग्मुः कालेऽस्मिन्कालदूतवत् । मुनीन्द्रा नमदुन्निद्रकौशिकाः कौशिकादयः ॥ ४ ॥ शाम्बं स्त्रीवपुषं कृत्वा वृष्णयो मदविह्वलाः । तानपृच्छन्मुनीन्पुत्रः पुत्री वास्या भविष्यति ॥ ५ ॥ मुशलं ब्रह्मदण्डाभं भावि लौहं कुलान्तकृत् । इत्युक्त्वामी तिरोभूवशाम्बस्याविरभूच्च तत् ॥ ६ ॥ आहुकेन भियाक्षेपि भस्सीकृत्य तदम्भसि । मत्वा कुलान्तं चायान्तं तीर्थयात्रां ययौ हरिः॥ ७ ॥ अथो रथो रथाङ्गं च केतुश्च पतगाधिपः । सर्व तिरोऽभवत्तस्य लुब्धं मित्रमिवापदि ॥ ८ ॥ अपूर्वाः सर्वतश्चण्डाः सद्यो ज्वरकराः पुरि । मुखं मृत्युप्रैपातानामुत्पाताः शतशोऽभवन् ॥९॥ अभासयत्प्रभासं च यात्रया विहरन्हरिः । कालेऽत्र कालकृष्टाश्च तं देशं यदवो ययुः ॥ १०॥ इह ते विहितोत्साहा लीलोद्यानेषु खेलिनः । विदधुर्मधुपानानि मधुपा इव पङ्कजे ॥ ११ ॥ तेऽद्भुतानन्दसंदर्भास्तदा नात्मानमुन्मदाः । कालदंष्ट्राङ्कुरघटाघरदृस्थमजानत ॥ १२ ॥
१. 'वनीयका ख-ग. २, 'तपसः' ग. ३. 'विलौहं च' ख. ४. 'पताकाना' क.
Aho! Shrutgyanam