________________
काव्यमाला।
हृष्यत्त्वचं तमर्चित्वा पप्रच्छ पृथिवीपतिः । श्रद्धालुः कुलवृद्धानां प्रवृत्तिं वनवासिनाम् ॥ ५० ॥ किं वक्तायमिति व्यक्तं वीक्ष्यमाणाननो जनैः। हर्षोमिषु श्लथो वाचमथोवाच मरुन्मुनिः ॥ ११ ॥ स प्रभञ्जनभुवर्षे वर्षे भोजनमुक्तितः । राजन्रराज राजर्षिरुत्कर्षिततपःस्थितेः ॥ १२ ॥ किमेभिस्तप एवास्तु कर्मप्लोषि ममेत्यसौ । मुमुक्षुनिष्क्रियो वहीनपि तत्याज कानने ॥ १३ ॥ एष तेषु प्रदीप्तेषु जरत्तरुघने वने । ध्यानामृताब्धौ गान्धारीपृथाभ्यां सहितोऽविशत् ॥ ५४ ॥ समाधिना परं धाम गतेस्तैरुज्झितांस्तनूः । अदहद्वाष्पवान्दीप्तशब्दोऽग्निश्चिरसेवितः ॥ ५५॥ तेषां विरहसंतापं स बाढं वोढुमक्षमः । संजयस्तु व्रतकृशो ययौ राजन्हिमालयम् ॥ ५६ ॥ इत्युक्त्वास्मिन्मुनौ याते शोकोत्पातेऽपतन्नपः । चक्रे तेषां स्फुरन्मोहकलिलः सलिलक्रियाम् ॥ १७ ॥ अथ द्विजवितानेभ्यस्तानेवोद्दिश्य भूपतिः । अमन्दपुण्यसंदानं दानं दान्तमना ददौ ॥ १८ ॥
इत्याश्रमे विमलयोगपतत्तनूनां __ शोकं विवेकनिकषः परिहृत्य तेषाम् । भूवल्लभो हरिहरद्रुहिणादिपाद___ ध्यानप्रपञ्चितरुचिः सुचिरं ननन्द ॥ १९ ॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितः
पादाजभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती । जाड्योत्खण्डिनि बालभारतमहाकाव्येऽत्र पर्वाश्रमा___ वासं पञ्चदशं तदुक्तिसदने प्रत्यासदत्पूर्णताम् ॥ ६ ॥ इति श्रीबालभारते महाकाव्ये आश्रमवासिकं पञ्चदशं पर्व संपूर्णतामगात् । १. 'वर्तिनाम्' ग. २. 'एषु' क. ३. 'तासुभिः' ग. ४. 'दीप्तं शब्दा' क. ५. 'त्पत्तिप' ख. ६. 'हत्या' क; 'इज्या' ख.
Aho! Shrutgyanam