________________
४९४
काव्यमाला। क्व क्षत्तेति क्षितीन्द्रेण पृष्टः प्रोचेऽम्बिकासुतः । स खैरी वातभुक्पुत्र दृश्यादृश्यश्चरेद्वने ॥ २५ ॥ इतश्च विदुरोऽप्यत्र समागच्छन्यदृच्छया। वनं प्रेसज्जनं प्रेक्ष्य दूरान्मृग इवात्रसत् ॥ २६ ॥ तमन्वधावदेकाकी सास्रो भूपाकशासनः । दूर दूरं स यातोऽस्मानिर्भाग्याद्विभवो यथा ॥ २७ ॥ मूले सालस्य कस्यापि तं स्थितं पृथिवीपतिः। नमन्युधिष्ठिरोऽस्मीति प्राह प्रत्युत्तरोत्सुकः ॥ २८ ॥ स्फीताक्षस्तन्मुंखप्रेक्षी नेत्रप्राणेन्द्रियैर्नृपम् ।। स तु प्राविशदर्कोऽग्निमिव भाभिर्निशागमे ॥ २९ ॥ तदा तस्मिन्सामरस्ये समाविष्टे महात्मनि । बभूव भूभुजंगोऽयमद्भुतज्ञाननिर्भरः ॥ ३० ॥ यन्यषेधद्वियद्वाणी तदेहदहनं तदा। तपोग्निनैव तन्मन्ये तत्पुरापि निवर्तिनाम् ॥ ३१ ॥ अथेदं धृतराष्ट्राय विनिवेद्यात्मपञ्चमः । तृष्णामिवेन्द्रियगणो भूपः कुन्तीमभिस्थितः ॥ ३२ ॥ फलभक्षः क्षमाशायी क्षपयित्वा नृपः क्षेपाम् । ववर्ष वसुभिः प्रातर्भानुकद्भुवनप्रियैः ॥ ३३ ॥ पितृव्यमथ राजर्षिराँजिराजितसंनिधिम् । ननाम नामग्रहणादप्यस्तजनपातकम् ॥ ३४ ॥ अथ त्रिजगतीवृत्तविलोचनसुधाञ्जनम् । तेषां दृङ्मार्गमागच्छत्पुण्यद्वैपायनो मुनिः ॥ ३५ ॥ स सर्वैः प्रणतः क्षत्तुर्गतिं राज्ञः पुरः स्तुवन् ।
पुत्रमाचष्ट कच्चित्ते चित्ते किंचिन्न बाधते ॥ ३६ ॥ १. 'वोन्नमत्' क. २. 'शालस्य' ख-ग. ३. 'मुखं प्रेषी' ख. ४. 'तत्पुरोऽपि' ग. ५. 'निवर्तनम्' क; 'निवर्तितम्' ख. ६. 'क्षिपाम्' क-ख. ७. 'राज' ख-ग. ८. 'चित्त' ख-ग. ९. 'किंचिन्न बाधते मनः' क.
Aho! Shrutgyanam