________________
४३६
★
काव्यमाला |
अनात्मज्ञतया स्वल्पबलो बलिनि संपतन् ।
स भवेद्वात्यया गच्छन्तृणमूल इवानले ॥ १११ ॥ अलुब्धैर्गुणिभिर्वीरैर्गुणग्राहिभिरुज्ज्वलैः ।
सुहृद्भिर्यः परीतस्तं विपदामपदं विदुः ॥ ९९२ ॥ दृष्टान्तौघ कथास्यूतैः शुचिभिर्वचनैरिति । आपद्धर्मं दिशत्सिन्धुनन्दनोऽनन्दयन्नृपम् ॥ ११३ ॥ मुहुः पुलकयनङ्गं गङ्गासूनुवचः स्मृतेः । अगादगारमुवींन्दुस्ततः सहचरैः सह ॥ १९४ ॥ तदा विदुरषष्ठानां मतिस्तेषामजायत । त्रिवर्गज्ञानपीयूषनिपीतप्रीतिशालिनाम् ॥ १५९ ॥ (इत्यापद्धर्माः ।)
अपृच्छदापगापुत्रं पुनरेत्य नरेश्वरः । धैर्य विनष्टबन्धुश्रीः कथं मर्त्यः श्रयेदिति ॥ ११६ ॥ पीतप्रशमपीयूषविशदोद्गारसोदराम् ।
भीष्मो वाचमथोवाच धिया वाचस्पतिद्युतीः ॥ १५७ ॥ राजन्दुःखौघवात्याभिर्नृणां प्रचलदात्मनाम् । संसारसारासारत्वविचारः स्थैर्यकारणम् ॥ १९८ ॥ क्षणिकैव स्मृतिः शोकस्तदायुस्तैदमुं स्वयम् । नष्टारं नाशयित्वाशु यशो गृह्णन्ति धीधनाः ॥ १९९ ॥ शोचन्ति हि धनं नश्यन्मूढानायुः सदा गलत् । त्रैलोक्यैश्वर्यदानेऽपि यल्लवोऽपि न लभ्यते ॥ १६० ॥ कालैक्यशालिनं विश्वव्यापिनं संविचारयन् । गलन्मिथ्यामतिर्नष्टशोकं क्व कुरुतां कृती ॥ १६१ ॥
ममकारनकारं ये कुठारं दुःखभूरुहाम् । कदाचिन्नैव मुञ्चन्ति ते सदानन्दमन्दिरम् ॥ १६२ ॥
१. 'प्रबल' क. २. 'क्षणिकैकस्मृतिः' क. ३. 'स्तदनु' इति ख- पुस्तके शोधितम्.
Aho ! Shrutgyanam