________________
१२शान्तिपर्व-१सर्गः] बालभारतम् ।
आक्रामति द्विषि प्रौढे न तिष्ठन्ति न यान्ति च । नवोढा इव वोढारं धीरा विधुस्यन्ति तम् ॥ १३९ ॥ वीतमन्त्रस्तु कुर्वीत बलिनाप्यरिणा रणम् । भुवं भुनक्ति जित्वा वा मृत्वा वा स्पर्धते हरिम् ॥ १४० ॥ कोशो यथा तथाप्येवं देवविप्रधनैर्विना । कार्यों व्यसनवल्लीनां स हि दीप्तो दवानलः ॥ १४१ ॥ संचितश्रीन मुच्येत व्यसनेऽप्यनुजीविभिः । अलिः सहाजैः सहते बन्धनं गन्धलोभतः ॥ १४२ ॥ क्षीणतैलं त्विषो दीपमग्निं दग्धेन्धनं शिखाः। शोभाव्यसुं विमुञ्चन्ति निद्रव्यमनुजीविनः ॥ १४३ ॥ आशापाशैमिथो बद्धं जगदस्ति चराचरम् । त्रुटन्ति यस्य यस्यामी स तं मुञ्चति हेलया ॥ १४४ ॥ विषमेऽपि न मर्यादा यो विमुञ्चति तस्य चेत् । तत्परित्याजनाशक्तिर्वीडयैव विलीयते ॥ १४५ ॥ व्यसनेषु श्रियं धाम देशं दारानपि त्यजेत् । रक्षेच ध्रुवमात्मानं पुनः कालो हि सर्वदः ॥ १४६ ॥ रुद्धोऽरिभिर्बहुतरैः सुधीस्तदपिकं श्रयेत् । क्रूरैः कर्मभिराक्रान्तो योगं जीव इवोत्तमः ॥ १४७ ॥ न विश्वसेप्रियोक्तीनां सद्वेषाणां विशेषतः । भृगयूनां स्मरन्गीतं मृगयूँनां कुलान्तकम् ॥ १४८ ॥ अन्तर्वसन्नलक्ष्यात्मा वर्तेत बलिनि द्विषि । प्रहरेत स्फुटीभूय काले रोग इवाणिनि । १४९ ॥ वकोटकपटः सर्पकुटिलः सिंहविक्रमः ।
काकातिशङ्कितो गृध्रदीर्घदर्शी सदा भवेत् ॥ १५० ॥ १. इन्द्रम्. २. 'यत्र' ख. ३. 'न मुञ्चति' क. ४. 'तत्' ख. ५. णत्वाभाव.. श्चिन्त्यः. व्याधानाम्. ६. 'युवादेर्न' इति णत्वनिषेधः.
Aho! Shrutgyanam