________________
१२शान्तिपर्व-१सर्गः] बालभारतम् ।
४२७ इत्यमीषां वचोवीचीप्रपञ्चैरपि भूपतेः । स्वबन्धुवधदुःखाग्नितप्तं न शमितं मनः ।। ३७ ॥ अथ हृज्ज्ञानपीयूषपयोधिलहरी गिरम् । दन्तांशुफेनिलां व्यासस्तच्छोकाग्निच्छिदे किरत् ।। ३८ ॥ दैवाद्यस्य यथा मृत्युरस्ति स म्रियते तथा । मशकोऽपि गजेनापि न शक्यो हन्तुमिच्छया ॥ ३९ ॥ तद्भूनाथ मयामाथि कुलं स्वमिति मा मुहः । कस्तान्विश्वजितो धीरान्हन्ति स्वैः कर्मभिर्विना ॥ ४० ॥ स्यात्पृथक्पथि पान्थानां यथा सङ्गः क्षणं क्वचित् । तथैव भविनां तत्कः शोकं तद्विरहे वहेत् ॥ ४१ ।। क्वापि तौ शोकहर्षों वा यतो भावोल्लवे लवे । ऐन्द्रजालिकवत्कालो दर्शयत्यन्यथान्यथा ॥ ४२ ॥ राजशोचसि किं बन्धून्कालेन कवलीकृतान् । ग्रस्यन्ते लीलया येन त्रिलोकीकारिणोऽपि ते ॥ ४३ ॥ शुचं मुञ्च तवेदानी कालः पालयितुं प्रजाः । न प्रजापालनादन्यो राज्ञां धर्मोऽस्ति यौवने ॥ ४४ ॥ जीवतो राज्यभागेन व्यसून्ब्राह्मणतर्पणैः । बन्धून्प्रीणय भूपाल त्वदुःखाहुःखिनोऽद्य ये ॥ ४५ ॥ अथास्मिन्विरते विष्णुवितेने जिष्णुसंज्ञया । क्ष्मापसंतापनाशाय मुखाजमधुभारतीम् ॥ ४६॥ कः करोति कृती शोकं राजन्परिजनार्तिदम् । न वैलन्ति मृता ये च न च जानन्ति यत्कृतम् ॥ ४७ ॥ सुहृदो दूरगस्यापि यद्यैश्वर्यश्रुतिर्मुदे । दिवि भोगभुजः शोच्यास्तत्कि ते बन्धवस्तव ॥ ४८ ।। करस्थं लालयन्मृत्युः करी कवलवज्जनम् ।
यदेच्छति तदा भुङ्क्ते ततः शोच्येत को मृतः ॥ ४९ ॥ १. 'वीरान्' ख. २. 'क्वचित्तौ' ख. ३. 'चलन्ति मृतायैन' क.
Aho! Shrutgyanam