________________
३९०
काव्यमाला ।
क्षितिभृद्भ्यः क्रुधारक्तो रक्ताब्द इव मद्रपः । रक्तरक्तैः शरैर्वर्षन्नकर्षद्रक्तनिम्नगाः || ३६ || वृतः पाण्डवसैनेयैमलिहस्तक्रमैरिव । युधिष्ठिरो ययौ शल्यं मूर्तो मृत्युरिवाद्रवत् ॥ ३७ ॥ मिथोऽस्त्रपातविरथौ रेजतुर्धार्मिमद्रपौ । महीमूलगतौ प्रातः सूर्याचन्द्रमसाविव ॥ ३८ ॥ द्वेषिक्षयानुमेयोत्थाप्तं यो दक्षिणे भुजे । तमाकृष्य यमं खङ्गमूर्त्याधावत मद्रपः ॥ ३९ ॥ मद्रेशचन्द्रहासेन पतता मूर्ध्नि भूभृताम् । निघ्नता सिन्धुरध्वान्तानस्पृक्सिन्धुरवर्ध्यत ॥ ४० ॥ कुम्भिकुम्भभिदा लग्नमुक्ताव्यक्तरदस्तदा । जहास यशसा शल्यकृपाणः पार्थपौरुषम् ॥ ११ ॥ दिव्यास्त्रैरर्जुनादीनां महेन्द्रः क्व नु पात्यताम् । अजातरिपुणा कोपाद्दृष्टोऽप्यासीन्न भस्म यत् ॥ ४२ ॥ अथ यां शंभवे त्वष्टा सृष्टवान्दैत्यदारिणीम् । सर्वशक्त्यैव शक्ति तां शल्याय प्राक्षिपन्नृपः ॥ ४३ ॥ हतस्तया सहस्रनया साहस्रो हृदि मद्रपः । शेषशीर्षसहस्रस्य व्यथां भुवि पतन्ददौ ॥ ४४ ॥ धावञ्शल्यानुजः क्रुद्धो विचित्रकवचाभिधः । युधिष्ठिरक्षुरप्रेणाभिमुखोऽप्यमुखीकृतः ॥ ४५ ॥ धावत्सु मद्रसैन्येषु ततः कञ्चुकिषु क्रुधा । पत्रिभिः काञ्चनै रौद्रैः सुपर्णतनयायितम् ॥ ४६ ॥ भीमेनाभ्रंलिहाराति शवालिनगमालिनी । निर्मनुष्या महारण्यभूरिवाकारि युद्धभूः ॥ ४७ ॥ सैनेयभललूनेन शाल्व भूपालमौलिना । दृष्टेन राहुणेवाशु म्लानं कुरुमुखेन्दुना ॥ ४८ ॥
Aho ! Shrutgyanam