________________
३८२
काव्यमाला |
इति ब्रुवन्भूपपदानयुग्मे मधुत्रतामास नरेण कृष्णः । भूपोऽपि तौ कर्णवधेऽभ्यषिञ्चदिवाक्षिनीरैः परिरभ्य हृष्टः ॥ ७४ ॥ रणे धरित्रीरमणेन साकं पाकद्विषः सूनुरथाभ्युपेत्य । हत्वापि राजप्रकरानकार्षीत्तेषां मुखै राजमयीमिवोर्वीम् ॥ ७५ ॥ गदाबलैर्वैरिबलानि भीमस्तदा बिभेदात्र यथा न भेदाः । क्ष्मायामबुध्यन्त महीभुजंगशताङ्गमातङ्गतुरंगमाणाम् ॥ ७६ ॥ भीतैर्भटैर्मुक्तमुखः करीव माद्यन्नथोत्पत्य पुरः स्फुरन्तम् । दुःशासनं कॢप्तरथास्त्रपेषः स एष जग्राह करेण केम्प्रम् ॥ ७७ ॥ दोषान्स्मरन्त्या हृदयस्थयाशु स कृष्णया नुन्न इवोग्रकोपः । हत्वैनमङ्केऽग्निसदृग्भिरुच्चैराचष्ट दृग्भिः प्रदहन्निवाशाः ॥ ७८ ॥ जहर्ष यः संसदि याज्ञसेनीकेशांशुका कर्षणकौतुकेन । भो भूमिपाः पश्यत पश्यतास्य विपाट्य वक्षो रुधिरं पिबामि ॥ ७९ ॥ इदं गदन्नेव तदा त्वदीयसूनोः कपाटोरु विपाट्य वक्षः । रक्तं मुहुः सैष पपौ जगर्ज मुहुर्महीपान्मुहुरालुलोके ॥ ८० ॥ आस्फालयन्बाहुमसृक्चितेन स सृक्किणी चावलयन्करेण । नदंस्तदा रक्तदृगूर्ध्वरोमा दृष्टश्च वीरैरभिमूर्छितं च ॥ ८१ ॥ स तेन कोपेन तदाकरिष्यदकर्णदुर्योधनमेव विश्वम् । स्मरस्मयस्मेररसोऽस्मरिष्यन्न द्रौपदीवेणिविमोक्षणं चेत् ॥ ८२ ॥ ऐन्द्रि तृणीय रणकर्मणीन्द्रस्पर्धे कधीरो वृषसेन वीरः । क्षणेऽत्र काणिः कटकोत्कटानि न्यपातयत्क्षोणिभृतां कुलानि ॥ ८३ ॥ मुहुः स माद्रीसुतसात्यकादीनेको बहून्विश्वविलोपशक्तीन् । विभग्नसंरम्भभरामकार्षीदब्धेस्तरङ्गानिव तीरदेशः ॥ ८४ ॥ ततः किरीटी प्रहरशरोधैर्मुखं च हस्तौ च वृषाङ्गजस्य । अपातयत्कौरवराजलक्ष्म्या वासाम्बुजं च श्रवणाम्बुजे च ॥ ८५ ॥ ततः शिखिक्रोडितकालकूटचक्रायमाणारुणकृष्णचक्षुः । राधाङ्गभूधैर्यधनोऽभ्यधावद्धनंजयं पुत्रवधक्रुधार्तः ॥ ८६ ॥
2
१. 'कण्ठम् ' ख २. 'क्षणेन' ख.
Aho ! Shrutgyanam