________________
७द्रोणपर्व - ३ सर्गः ]
बालभारतम् ।
हत्वा बलावलीस्तेन पार्थेशे विरथीकृते ।
हतो हतोऽद्य राजेति लोकाः शोकात्प्रचुकुशुः ॥ ७७ ॥ क्षिप्तां शक्ति नृपेणाथ कटुक्काणां सघण्टिकाम् । ब्रह्मास्त्रेणाच्छिदद्रोणस्तच्छौर्यरसनामिव ॥ ७८ ॥ सहदेवरथेनाथ पलाय्य प्रययौ नृपः ।
दर्शितस्वामिभक्त्येव सेनयाप्यन्वगामि सः ॥ ७९ ॥ अथ पार्थचमूवीरैः समीरैः क्षयजैरिव । शोषिताः परवाहिन्यो रङ्गितासितरङ्गिताः ॥ ८० ॥ करटीव बृहत्क्षत्रः कैकयानी कनायकः । द्रोणानुगं क्षेमधूर्ति स्तम्भपातमपातयत् ॥ ८१ ॥ जघानाथ त्रिगर्ते स धृष्टकेतुर्महारथम् । सहदेवोऽरिमित्रं च व्याघ्रदत्तं च सात्यकिः ॥ ८२ ॥ त्वष्ट्रास्त्रहतमायास्त्रं भीमं भीमवधोद्यतम् । अलम्बुषं रथात्कृष्ट्वा निष्पिषेष घटोत्कचः ॥ ८३ ॥ तदाभूद्रौणभैमिभ्यां भज्यमानबलद्वये ।
क्षोणिभृत्क्षुभिताम्भोधिक्रोधी कलकलः कैलः ॥ ८४ ॥
दवीयसस्तदा जिष्णोरशृण्वशङ्खनिःखनम् । सात्यकिं काणि चैरितपरितप्तोऽभ्यधान्नृपः ॥ ८९ ॥ शूर क्रूरचरित्रेषु प्रविष्टस्ते गुरुः सुहृत् । धर्मज्ञ तव कालोऽयमालोकय शरण्यताम् ॥ ८६ ॥ प्रयातेऽपि त्वयि प्राणसदृक्षस्य दिदृक्षया । द्रोणां द्रौपदिभीमाभ्यां समेतस्य न मे भयम् ॥ ८७ ॥ इति श्रुत्वा तथेत्युक्त्वा दत्त्वा हुत्वा च सात्यकिः । स्रग्वी धात्रीशमामन्त्र्य मङ्गलालंकृतः कृती ॥ ८८ ॥
३४७
(अर्जुनप्रवेशः)
१. 'पार्थेन' ख. २. ''धृष्टकेतुं म' ख-ग. ३. 'द्रौणि' क- ख. ४. 'किल' ग. ५. 'द्रौणि' ख. ६. 'चरितं' ग. ७. 'सकृत्' ख.
Aho ! Shrutgyanam