________________
७द्रोणपर्व-३सर्गः] बालभारतम् ।
३४३ अथैत्य पार्थ पृथ्वीशावच्युतायुःश्रुतायुषौ । शूलतोमरनाराचैर्मोहयामासतुर्दुतम् ॥ २९ ॥ द्रुतमूर्छितमूर्छन ततः शक्रास्त्रमोचिना । तावर्जुनेन गर्नन्तौ जनाते सानुजानुगौ ॥ ३० ॥ अङ्गवङ्गकलिङ्गादिध्वजिनीरुधिरैर्व्यधात् । वीरालंकाररत्नाढ्यैः स रत्नाकरमष्टमम् ॥ ३१ ॥ तद्भल्लभिन्नकुम्भीन्द्रघटाकुम्भसमुद्भवैः । ताम्रपर्णीशतान्यासन्रक्तैर्मुक्तालिमालिभिः ॥ ३२ ॥ प्रीतैः पीतेव रक्षोभिर्विलक्षब्रह्मराक्षसैः । तेने तेनेषुभिर्लेच्छवाहिनीरक्तवाहिनी ॥ ३३ ॥ अम्बष्ठाधिपतेर्मोलिं युद्धद्रुमफलं जयी । जयश्रिये प्रियायै स हृत्वा कृत्याय तत्वरे ॥ ३४ ॥ इतश्च त्वरया गत्वा गुरुं कुलपति गौ । त्वां विलच्याविशत्पार्थः प्रियशिष्यतया तव ॥ ३५ ॥ दत्ता भयेन निश्येव त्रस्यन्नस्थायि सिन्धुपः । विशन्नुपेक्षितश्चैन्द्रिविरुद्धं चरितं तव ॥ ३६ ॥ अथाचष्ट गुरुयूहमविशद्वासवात्मजः । हरित्वरितवाहेन लवयित्वा रथेन माम् ॥ ३७ ॥ यद्येनमनुगच्छामि तद्भीमाद्या विशन्त्यमी । त्वं तु युध्यस्व मन्मन्त्रवज्रवर्मवशेन तम् ॥ ३८ ॥ इत्युक्त्वा वज्रमन्त्रेण वर्मितो गुरुणा नृपः । खमागतेन रुद्रेन्द्र पशुरामगुरुक्रमात् ॥ ३९ ॥ अधरोल्लङ्घनानीशमुखश्वासेन रंहसा ।
पार्थमन्वचलद्धन्वचलनोग्रैः समं बलैः ॥ ४० ॥ (युग्मम्) १. 'रमाद्यैः' क-ग. २. 'प्रीतेव' ख. ३. 'अवन्त्य' ख. ४. 'नस्यन' क. ५. 'क्रमा' ग, ६. 'मभ्यचल' ख.
Aho! Shrutgyanam . .