________________
३०२
काव्यमाला।
कुम्भीन्द्रेणेव भीमेन यमलीलावने युधि । ध्वस्तो वीररसस्येव प्रासादः केतुमान्नृपः ॥ २० ॥ अथ भीमास्त्रविरथस्तां चमूमत्यतापयन् । मारुतिर्मारुतोद्भूतजीमूत इव भानुमान् ॥ २१ ॥ सौभद्रशरवीचीभिः कुमारः कुरुभूपतेः । बालद्रुम इवाम्भोदधाराभिर्विधुरीकृतः ॥ २२ ॥ शराः सुयोधनादीनामितश्चेतश्च पातिनः । व्यैजयन्संयतिश्रान्तमार्जुनि वाजमारुतैः ॥ २३ ॥ द्रुमाणां कुसुमानीव यशांसि क्ष्माभुजां क्षिपन् । तत्रातित्वरया वायुरिवायात्कपिकेतनः ॥ २४ ॥ विपक्षविशिखास्तस्मिन्नकिंचित्करतां ययुः । नरेऽतिनीरसे नारीनिरीक्षणगुणा इव ॥ २५ ॥ कीनाशदासहस्तायैरिव भल्लिनखोत्कटैः । असून्क्रष्टुं विपक्षेषु विष्वक्पेते तदाशुगैः ॥ २६ ॥ कौन्तेयकृत्तैर्वीरेन्द्रैविध्यमानः समन्ततः । उद्विग्न इव तिग्मांशुस्तदास्ताद्रिगुहां गतः ॥ २७ ॥ ततोऽवहारव्याहारभाजि भीष्मे भुजाभृतः । ययुनिजनि धाम धामनिद्भुतवह्नयः ॥ २८ ॥ (द्वितीयमहः) अथोल्नणरणश्रद्धाः संनद्धा दो तोऽभितः । रत्नकङ्कटकान्त्योच्चैः क्षपाशेषे तमोऽक्षिपन् ॥ २९ ॥ भीष्मो व्यूहं व्यधाद्वैरिदर्पसाय गारुडम् । तद्वयूहगलहस्तार्थमर्धचन्द्रमथेन्द्रभूः ॥ ३० ॥ अभीष्टोदामसङ्ग्राममिथोदानसुहृत्तमाः । परस्परं प्रशंसन्तः प्रीता भुजभृतोऽमिलन् ॥ ३१ ॥ तदापलिप्तकीलाला बालार्कद्युतिमालया ।
न प्रत्यङ्गं लगन्तोऽपि प्रहारा जज्ञिरे भटैः ॥ ३२ ॥ १. 'इति द्वितीयमहः' ख. २. 'द्विषदर्पसर्पत्रासाय' ख. ३. 'चन्द्रं नरो व्यधातू'ख.
Aho! Shrutgyanam