________________
२९८
काव्यमाला।
तं बृहबलमखण्डबलश्रीमन्युमानभिययावभिमन्युः । आर्जुने रणसहायतयाथो कैकयक्षितिपतिः कृपमाप ॥ ७९ ॥ दन्तिनोरिव तदा कुरुपाण्डव्यूहयोरुभयतो रदनाभान् । तान्प्रहारचतुरांश्चतुरोऽपि प्रेक्षत ध्वनिधनानमरौघः ॥ ७६ ॥ तन्मिथो विरथिनौ सकृपाणौ मङ्क कैकयनृपश्च कृपश्च । तत्किमप्यसृजतां युधि येनालोकितौ रणमपास्य भटैस्तैः ॥ ७७ ॥ दुर्मुखस्य धृतराष्ट्रसुतस्य द्राग्बृहबलसहायपदस्य । सारथिं युधि शरेण सरोषो निर्जघान सहसा सहदेवः ॥ ७८ ॥ आर्जुनेविकिरतः शरवीथीं ज्यानिनादनिपतद्रिपुपतेः । अच्छिनधुधि बृहद्बलभूपो मार्गणैः सपदि सारथिकेतू ॥ ७९ ॥ तत्कृतप्रतिकृतः स कृतज्ञः कोपतः किमपि युद्धमधत्त । फाल्गुनिर्घनघनाघनसान्द्रेश्छादयन्गगनवम शरौघैः ॥ ८० ॥ एकमप्यतुलवीर्यमने मेनिरे निजनिजाग्रविभागे। रोदसी दशदिशोऽपि शरौधैः प्लावयन्तमिव फाल्गुनिमन्ये ॥ ८१ ॥ अप्यभेद्यमुपलावलिवृष्ट्या मण्डपं दिवि विधाय स काण्डैः । अग्निवजनकमातुलरीत्याचारयद्रिपुवने निजतेजः ।। ८२ ॥ मिन्नभद्रगजरौद्रसुभद्रानन्दनास्त्रगणविक्रमणेन । इत्यभिद्रुतकुरुप्रकरण प्रीणिते समिति पाण्डवसैन्ये ॥ ८३ ॥ आपपात तटिनीतनयस्य स्यन्दनो भुवनभीषणघोषः । चक्रयोर्गतिभिरेव मृतानां जीवतां च हृदयानि विभिन्दन् ॥ ८४ ॥
(युग्मम्) आपतत्प्रलयमारुतकल्पः सिन्धुसूनुरतुलस्तु बलान्तः । भूभृतां सकटकानि कुलानि व्यक्तशक्तिरुदपीडयदग्रे ॥ ८॥ न श्रमः समजनिष्ट तटिन्या नन्दनस्य धनुषी विशिखैर्वा । भ्रूविभङ्गचललोचनरोचिः स्रग्भिरेव विमुखेषु परेषु ।। ८६ ॥
Aho! Shrutgyanam