________________
१६
एवं च त्रयोदशख्रिस्त शतकनिश्चितस्थितिवीसलदेवराज्ये अमरचन्द्रस्य स्थितिनिश्च यात्रयोदशस्त्रिस्ततके बालभारत निर्माणनिश्चयः.
नयचन्द्र कविकृतयोर्हम्मीर महाकाव्य- रम्भामञ्जरीनाटकयो:'कार्यात्कारणसंविदं विदधते नैकान्तमुत्सृज्य यत्ततेषामिव नोऽपि कर्हिचन किं चेतश्चमत्कारवान् । नैवं चेन्नयचन्द्रसूरि सुगुरोर्वाणी विधायामृतं श्रीहर्ष तमथामरं तमपि तत्कि संस्मरेयुर्बुधाः ॥ नयचन्द्रकवेः काव्यं रसायनमिहाद्भुतम् । सन्तः स्वदन्ते जीवन्ति श्रीहर्षायाः कवीश्वराः ॥ लालित्यममरस्येह श्रीहर्षस्येह वक्रिमा ।
नयचन्द्रकवेः काव्ये दृष्टं लोकोत्तरं द्वयम् ॥'
इत्यत्र 'स्वदन्ते', जीवन्ति' इति वर्तमानप्रयोगाच्छ्रीहर्षामरचन्द्रयोरपि नयचन्द्रसमकालकत्वं वर्णयन्ति. परंतु चतुर्दशशतकमृतहम्मीर महाराजवर्णकनयचन्द्रकवैश्वतुर्दशशतकपूर्व कालकत्वाभावेन द्वादशख्रिस्त शतकोत्पन्ननैषधीयचरितकर्तृश्रीहर्षस्य त्रयोदशस्त्रिस्तशतकोत्पन्नबालभारतमहाकाव्य कर्त्र मरचन्द्रस्य च नयचन्द्रसमानकालकत्वाभावादेतत्समानसमयौ श्रीहर्षामरौ कौचिद्भिन्नावेव भवेताम्
तदेतस्य बालभारतमहाकाव्यस्य परममनोहरस्य यद्यपि काशीविद्यासुधानिधि ( The Pandit ) पत्रे मुद्रणं जातम्, तथापि तस्य सर्वासुलभत्वं बहुत्र पाठस्य खण्डितत्वं चावलोक्य पुनर्मुद्रणेच्छा जाता. तत्र पुनर्मुद्रणसमये महामहोपाध्यायपण्डितश्रीदुर्गाप्रसाद शर्मभिः
क-संज्ञकं द्विचत्वारिंशत्सर्गात्मकं चरमसर्गद्वयरहितं जयपुरराजगुरुभश्रीलक्ष्मीदत्ततनयश्रीदत्तशर्मभिः संवत् १७२४ वैशाख वदि ४ भौमवासरे लिखितं प्रहितम्. ख-संज्ञकं समग्रं ३०७ पत्रात्मकं जोधपुरपाठशालाध्यापकरमानाथशास्त्रिभिजोधपुरनगरतो यतिवरश्रीगणेशपुरीसाधूनां प्रेषितम्.
ग-संज्ञकं काशीविद्यासुधानिधिपत्रे मुद्रितम्.
इत्येवं पुस्तकत्रयमाश्रित्य समारब्ध संशोधने तत्स्वर्गवासोत्तरमस्माभिः समापित संशोधनेStयस्मिन्महाकाव्ये यत्रास्मद्दोषादक्षरयोजकदोषाद्वाशुद्धिः स्थिता जाता वा तां सुधियः सौहार्देन शोधयन्तु यतः
गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ||
इति निवेदयत: -
पण्डितशिवदत्तकाशीनाथौ.
Aho ! Shrutgyanam