________________
२६६
काव्यमाला |
२
प्राक्चरित्रनिचयैर्निबोधितो नारदादिभिरपि द्रुतागतैः । ऊचिवानेथ हरि प्रति क्रुधारब्धबोधनिधनः सुयोधनः ॥ ३२ ॥ सौहृदेन निश्चहि किं दैत्यबन्धन दधासि संघये । तान्महाप्रहरणान्रणावनीसीनि सज्जय लसज्जयश्रियः ॥ ३३ ॥ याच्यतेऽवनिलवोऽद्य धीधनैरेभिरूढदृढगूढमत्सरैः । तत्र रोपितपदा हि मच्चमूदाहि सैन्यमतिमेलयन्ति ते ॥ ३४ ॥ अद्य बान्धवमिषाद्विषः कथं तान्महत्त्वमधिरोपये पुनः । मृत्युदानपरमङ्गसंगतं कः प्रवर्धयति रोगमात्मनः ॥ ३५॥ एवमालपति कौरवे रवेः साम्यमिन्दुमपि लौचनं नयन् । भारतीमभजदुल्लसद्भुजः क्रोधनः क्रमकटुं त्रिविक्रमः ॥ ३६ ॥ ऐन्द्रिरेव परमः सुहृन्मम त्यज्यते स्वमपि यत्कृते मया । सान्द्रमैन्द्रमपि तस्य निष्फलं यस्य न स्फुरति तादृशः सुहृत् ॥ ३७ ॥ सङ्गतोऽङ्गसुहृदां सुधा मुधेत्यादिशन्ति हृदयालवः सदा । यं रसाद्रसयतां मनीषिणां न प्रियाधररसेऽपि हि स्पृहा ॥ ३८ ॥ नो सुहृत्परिचयात्परं क्वचित्किचिदस्त्यमृतमित्यहं ब्रुवे । यन्निपानघटमानहृष्टयो दृष्टयो दधति निर्निमेषताम् ॥ ३९ ॥ इत्थमिन्द्रसुतसौहृदादहं किं करोमि न विना चेंक्तिभिः । पूर्वकर्मवशगे शुभाशुभे चाटुकर्म कुरुते न कोविदः ॥ ४० ॥ युष्मदर्थमयमर्थितो मया संधिरस्तु यदि धीर्युधीप्सिता । भीमदोष्णि निहितैव तद्विषां कालरात्रिरिव सर्वदा गदा ॥ ४१ ॥ अस्तु पाण्डुतनुजन्मनां पुनः को विरोधिषु भवत्सु मत्सरः । मौलिदत्तचरणासु केसरी मक्षिकासु न कदापि कुप्यति ॥ ४२ ॥ कोऽभवत्परिभवाय पाण्डवैः सैनिकव्यतिकरः करिष्यते । वल्गदेणगणवर्गखैर्वणे सैन्यमानयति केसरी कियत् ॥ ४३ ॥
२. 'मिषाद्विषः' ख. ३. 'नायनं' ख ग ४. 'त्वदुक्ति' ग.
१. 'निति' क. ५. 'चर्वणे' ख.
Aho ! Shrutgyanam: