________________
२६४
काव्यमाला ।
विक्रमैर्निरुपमान्निरूपयन्भूपकुञ्जरचयानवज्ञया । सानुसिंह इव सिंहविष्टरं विष्टपप्रभुरभूषयत्ततः ॥ ७ ॥ माधवः सह महामहीधवैः संहतैरवहितेऽम्बिकासुते । पाण्डवीयकमुवाच वाचिकं वाचि कंचिदमृतद्रवं किरन् ॥ ८ ॥ के न पूर्वमभवन्भुवो धवा मेदिनी कमपि नेयमन्वगात् । व्रीडमप्यधृत नाग्रभर्तरि भ्रंशभाजि दधती नवं नवम् ॥ ९ ॥ नैतया कति पतित्वधारिणो मारिता बत परेषु संक्तया । रागिणो गुणनिधीन्यदृच्छया जीवतोऽपि कति नेयमत्यगात् ॥ १ 11 एतदर्थमपि यः कदर्थयत्यर्थवादकणधी रिपूनपि ।
श्लाध्यते न खलु सोऽपि यः पुनः कूल्यमस्यति नमस्य एव सः ॥ ११ ॥ वैभवेऽपि भुवनस्य भोग्यतामेति तल्पमितमेव भूतलम् । श्रीभरेऽपि सति भोग्यतोऽधिकं स्वस्य किंचिदपि नोपकारकम् ॥१२॥ वैभवैर्भवति भोगतोऽधिकं संमदो यदि ममत्वमात्रतः । क्ष्मा ममेयमखिलाप्यदो वदन्प्रीयते च तदकिंचनोऽपि किम् ॥ १३ ॥ मन्मुखादिति तपःसुतो नृपस्त्वां प्रणम्य परिरम्य बान्धवान् । भोगमात्र फलमात्मपञ्चमो ग्रामपञ्चकमयाचत स्वयम् ॥ १४ ॥ तद्धुनीवन बिलागसागरैरुद्धमस्ति न कियद्धरातलम् । भूलवोऽयमपि तद्वदुच्यतां मुच्यतां सह कुलेन विग्रहः ॥ १९ ॥ विग्रहः सह कुलेन नौचितीं यात्यरातिकुलकल्पपादपः । कश्चिरं रणभरेण सिंहयोः प्रीतिमेति न वने वनेचरः ॥ १६ ॥ गोत्रजः सहजशत्रुरित्यसौ नीतिरस्तु धनलोभदुर्धियाम् । वृद्ध तुल्यलघुपुंवृतं जगद्धीधनस्य पितृमित्रपुत्रवत् ॥ १७ ॥ धारयन्ति धनलुब्धचेतसां बन्धवोऽपि निभृतं विरोधिताम् । लूनलोभमधुरस्य धीमतो बन्धुतां स्पृशति विश्वमप्यदः ॥ १८ ॥
१. 'लुब्धया' ख. २. इतोऽग्रे 'त्रिभिर्विशेषकम्' इत्यधिकं ख. ३. 'भोज्यतो ' क- ख. ४. 'न' ख-ग. ५. 'बृद्धिकुल्य' ग.
Aho ! Shrutgyanam