________________
४विराटपर्व-४सर्गः] बालभारतम् ।
२४९ उद्दण्डदण्डातपवारणस्य नानामणिश्रेणिभृतो मिषेण । तस्मिन्नियुक्तः स्ववशः सशेषः संपिण्ड्य सिन्धुः किल मातुलेन ॥७४॥ द्विपं चतुर्दन्तमिवोरुदन्तं मिथः प्रतिच्छन्दवशाद्विशालम् । आरुह्य मुक्ताधवलं स पौत्रस्नेहेन दत्तं किल वासवेन ॥ ७५ ॥ उत्तार्यमाणस्य तदा भगिन्या शुभ्रस्य दम्भाद्वरकुम्भकस्य । मुहुः परिभ्रम्य विलोक्यमानः कुल्यप्रमोदाद्विधुना चचाल ॥ ७६ ॥
(युग्मम्) दूतेन तूर्यध्वनिनैव तस्य पुरोवरस्यागमनेन दिष्टे । विराटगोत्रप्रमदाकुलस्य मैदाकुलस्यं स्फुरितं प्रमोदैः ॥ ७७ ॥ स पूर्वशैलादिव दन्तिराजादुत्तार्य मार्तण्ड इवोरुतेजाः। पादप्रचारेण विराटधाम धाराधराध्वानमिवाविवेश ॥ ७८ ॥. बृहजनैः संमुखमापतद्भिनिन्येऽभिमन्युः सविधे स वध्वाः । द्राग्गन्धवाहैरिव गन्धवाहैरम्भोरुहिण्या मधुपः समीपम् ॥ ७९ ॥ मौनावलम्बिन्यखिलेऽपि लोके क्षणं लिपिन्यस्त इव स्थितेऽस्मिन् । पैलं पलं चाक्षरमक्षरं च स्फुटं नियुक्तेषु समुच्चरत्सु ॥ ८० ॥ संसाध्य लग्नं सजनौघतालं स्थालं विशालं परिवादवत्सु । संमेलयामास करौ तदीयौ गुरुविराटस्य धृतौ कराभ्याम् ॥ ८१ ॥
(युग्मम्) ह्रिया मुहुः संप्रसरापसारां मिथस्तयोर्नेत्रयुगं तदानीम् । विश्रम्य विश्रम्य विभां प्रियाङ्गादपादतृप्तं चिरतृष्णयेव ॥ ८२ ॥ प्रदक्षिणास्तौ शिखिनः सृजन्तौ जायापती निर्मलचीरचारू । समापतुः शोणसरोरुहान्तः संभ्रान्तशुभ्रच्छदयुग्मशोभाम् ॥ ८३ ॥ गुरोनियोगादपि लाजमुष्टिं निक्षिप्य बाला ज्वलिते कृशानौ । आचारधूमं भृशमाददे यं स चिहलीलामगमन्मुखेन्दौ ॥ ८४ ॥ ततः सौभद्रेयः सकलकुलवीरव्रतलता
तताम्भोदो रोदोजलधिजलपूरायितयशाः । १. 'चण्डा' क. २. 'मुदाकुलस्य' ख. ३. 'पदं पदं ग.
३२
.
Ahoi Shrutgyanam