________________
२३६
काव्यमाला |
कीर्त्या तु किं च परलोकगामिनो या न स्फुटा श्रुतिपुटामृती भवेत् । किं कण्ठपीठलुठितागतात्मनः पुंसः सुखं सृजति हारवल्लरी ॥ ६६ ॥ के नाम वामनयनाजनाग्रतो न स्फोरयन्ति निजबाहुबाहुलम् | शक्यं न निष्कृपकृपाणपाटनप्राणप्रहारकरणं रणं पुनः ॥ ६७ ॥ द्रोणापगेय कृपकर्णकौरवाः सर्वे स्फुरन्ति शरदन्तुराम्बराः । एकैकमेषु समरे सहेत कः स्याद्यत्पुरोऽशनिधरोऽप्यधीरधीः ॥ ६८ ॥ उक्त्वेति शुष्यदधराननो रथादुत्प्लुत्य तूर्णपदपातमन्त्रसत् । पृष्ठे शराहतिमसौ लथीभवद्धम्मिल्लपुष्पततिपाततोऽविदत् ॥ ६९ ॥ तं पाण्डुभूरनुससार वेगतो व्याधूतवेणिलतिकारुणांशुकः । तं चित्ररूपमविचारगोचरं वीक्ष्यारवैरहासिषुः कुरूद्वहाः ॥ ७० ॥ स्त्रीवेषगुप्ततनुरेष फाल्गुनो नूनं गजेन्द्रगमनो महाभुजः । रोषं विमोक्षति रुषा शरोत्करैरित्युचिरे गुरुकृपापगाङ्गजाः ॥ ७१ ॥ पश्चाद्गतेन रयतः किरीटिना केशैर्धृतः कृपणमुत्तरो वदन् । मां मुञ्च मुञ्चरदिनो रथान्हयान्हेमानि रत्ननिचयं तवार्षये ॥ ७२ ॥ आक्रोशितानि शतमन्युसूनुना श्रुत्वास्य सस्मितमितीरितं वचः । मा भीतिमाश्रय हयास्त्वया नियम्यन्तां तनोमि रिपुदारणं रणम् ॥७३ अस्मिञ्शमीतरुशिखान्तरुत्तर न्यस्तास्ति पाण्डुसुतशस्त्रमण्डली । अस्याः शुभं मम भुजार्ग लोपमं गाण्डीवमिन्द्रतनयास्त्रमर्पय ॥ ७४ ॥ शङ्कां विलम्बिनि शवेऽत्र मा कृथा माया हि गूढमियमाहिता मया । मूर्धाभिषिक्ततनुजं न योजये त्वां कर्मणि ध्रुवममङ्गलक्रमे ॥ ७९ ॥ इत्यर्जुनोक्तिमवधार्य मत्स्यभूरारोहति स्म तमसौ शमीद्रुमम् । तत्रासिसायकधनूंषि चित्रभार्जुषि न्यभालयदबालविस्मयः ॥ ७६ ॥ संख्याक्षयेषुधियुतं ततोऽग्रहीगाण्डीवमर्जुन गिरोपलक्ष्य सः । तत्रावतीर्य तरुतः क्व ते गता पञ्चेति पृष्टवति फाल्गुनो जगौ ॥ ७७ ॥ कङ्कद्विजः सुकृतजो मरुद्भवः सूदो यमौ तुरगगोपती त्वहम् । बीभत्सुरस्मि निरवाहि वत्सरो गुप्तस्थितिः पणकृतो भवद्गृहे ॥ ७८ ॥ १. 'गांजीव ' क ख २. 'चित्रभानुंषि' क ख ग . ३. 'शंखाक्षये युधि' ख.
Aho ! Shrutgyanam