________________
४ विराटपर्व - ३ सर्गः ]
बालभारतम् ।
पृष्ठानुयायि जवना निलत्वरासंप्रेरितैरपि निजाश्वपादजैः । अप्राप्त एव रजसां भरैरथ सूर्य ययौ रिपुसमीपमुत्तरः ॥ ५४ ॥ अग्रे शमीतरुसमीपगः पुरीप्रान्तस्मशानभुवि मत्स्यभूपभूः । विद्वेषिणां भुवनभीषणारवं व्यालोकते स्म विपुलं बलार्णवम् ॥ ५५ ॥ विश्वान्तरालचरकालशर्वरी संध्यायमानकरिकुम्भवर्णकम् ।
रङ्गत्तुरङ्गखुरपातघातजक्षोणीरजःस्थपुटदिक्पुटस्थितिम् ॥ ५६ ॥ चञ्चद्रथोच्चयचलध्वजाञ्चलप्रज्वालितप्रबलपौरुषानलम् ।
२३५
व्याप्तप्रमत्तयमकिङ्करावलीतुण्डाभकुण्डलितचापमण्डलम् ॥ ९७ ॥ दृप्तं नदीजकृपकुम्भभूकृषीसंभूतसूतसुतकौरवेश्वरैः । सैन्यं निभाय पुरतो भयातुरः प्रोचे शचीवरतनूजमुत्तरः || १८ || (त्रिभिर्विशेषकम् )
एतां निरूप्य पृतनां दिनेशरुग्दीप्तासि दण्डनिविडां बृहन्नडे | आकम्पतेऽद्य हृदयं भयाश्रयं व्यावर्तयान्तकपुरीपथाद्रथम् ॥ ९९ ॥ श्रुत्वेति तस्य वचनं धनंजयो व्याचष्ट तं भ्रमितभीरुलोचनम् सङ्ग्रामकातरतया त्रपामहे क्षोणीमहेशसुत शूरसंसदि ॥ ६० ॥ कीर्तिर्युगान्तशतसाक्षिणी नृणां कायस्तु मत्तकरिकर्णचञ्चलः । धैर्य भजस्व युधि भङ्गसंगमान्मा मा कुलं कुरु कलङ्कसंकुलम् ॥ ६१ ॥ आत्मायुधैर्युधि विशोधितो न चेत्तन्नामृतद्युतिकैलोपदंशकः । स्वाद्येत नन्दनवनान्तकेलिषु प्रेम्णार्पितोऽमरवधूजनाधरः ॥ ६२ ॥ मातुः स्वसुश्च दयिताततेश्च तां संधां विधाय पुरतस्तथाविधाम् । धिग्धिक्पलायनपरायणोऽधुना ह्रीर्मोनहीनमनसां जिजीविषा ॥ ६३ ॥ श्रुत्वेत्यभाषत सुतः क्षितीशितुर्विस्त्रस्त हस्तगधनुर्विहस्तधीः । पश्यन्पुरः कुरुपतेर्वरूथिनीं दृप्यद्रथीन्द्रवर भैरवारवाम् ॥ ६४ ॥ या कीर्तिरुल्लसति देहनाशतस्तां वेसरीसुतजनुः सहोदरीम् । रम्भाफलोद्भवसवर्णिनीं जनः कां मूलनाशनकरी परीप्सति ॥ ६९ ॥
१. 'कलोक' ख; 'कपोल' ग. २. 'हीना न हीन' क.
Aho ! Shrutgyanam