________________
४विराटपर्व-१सर्गः] .. बालभारतम् । . २२१
तस्या नवप्रवेशात्तस्योरसि रतिरसः खलूद्धान्तः । उल्लसति स्म विलोचनयुगलीविगलितजलच्छलतः ॥ ११ ॥ सुमुखी सुललितनयना कोमलतरचरणपाणिरिह केयम् । अलिमिव हृदयं भ्रमयति मम जंगमकल्पवल्लिरिव ॥ १२ ॥ इति पृष्ट्वैष सुदेष्णां मुदितो विदितेन तत्स्वरूपेण । भृशमधिकाधिकविकसितरणरणकाकुलितहृदयोऽभूत् ॥ १३ ॥
(युग्मम्) अथ तेन द्रुपदसुता जगदे जगदेकनयनपीयूषम् । परिकलितशीललीला स्मरशिखिकीलाभितप्तेन ॥ १४ ॥ इन्दुमुखी कुमुदाक्षी रम्भोरूः कमलचारुकरचरणा । अमृतद्रवलावण्या हृदयगता देवि किं दहसि ॥ ५५ ॥ त्वं कण्ठगा मुदेऽमी ददति मृति त्वं च पञ्चशरविभवः । एते तृणं तदतुले तुलयामि शुभे किमसुभिस्त्वाम् ॥ ५६ ॥ अपि दयिते हृदयस्य द्वारे भवतीं विधातुमुक्तोऽस्मि । यदि हान्तरा चरन्ती शल्यमिव व्यथयसि दृढं माम् ॥ १७ ॥ यदि भुजयुगलेन दृढं सुतनो न तनोषि मम तनौ बन्धम् । उत्कण्ठाभरपूर्णः स्फुटितोऽस्मि तदूर्ध्व एवाहम् ॥ १८ ॥ तदिह कुरु तरुणि करुणां मदसुषु मदनाभितापितं भज माम् । रमणी रमणेन विना न विभासि विभावरीव चन्द्रेण ॥ ५९ ॥ अथ रोषरूक्षपदमिति वदति स द्रुपदनन्दिनी वचनम् । दुर्नयमधिरोहति धीधिक्ते दशकन्धरस्येव ॥ ६० ॥ गन्धर्वास्त्रिदशैरप्यशमितगर्वा भवन्तमुद्धान्तम् । मन्दं मत्पतयो बत गुप्ता नेष्यन्ति पञ्च पञ्चत्वम् ॥ ६१ ॥ अथ मन्मथविसृमरशरदूनमनःस्त्रस्तसुनिबिडवीडः ।
सपदि सुदेष्णायै स न्यवेदयत्तद्गतं भावम् ॥ ६२॥ १. 'स लोचन' ग.
Aho! Shrutgyanam