________________
२२०
काव्यमाला।
लीलासमुल्लचितमल्लपङ्क्तेस्तस्य प्रतापैकनिधेर्न कश्चित् । रवेरिवास्तंगमितान्यतेजस्ततेः पुरोऽभूप्रतिमल्लभूतः ॥ ३८ ॥ तस्मिन्नलब्धप्रधने मदैकधनेऽधिकं रङ्गति रङ्गभूमौ । भीमं हियाचष्ट चिराद्विराटो निवार्यतां बल्लव मल्लबल्लाः ॥ ३९ ॥ इत्याज्ञया तस्य च कौतुकैश्च दोर्दण्डकण्डूलतया च नुन्नः । विधोद्यदुत्साहरसः ससर्प तदर्थमुच्छेत्तुमथो पृथाभूः ॥ ४०॥ भीमस्य दोःस्फालनजस्तदाभून्नादो विदीर्णेतरशैलशृङ्गः। किमत्र चित्रं यदभजि तेन जीमूतगर्वग्रहपर्वतोऽपि ॥ ४१ ॥ मल्लेन्द्रमुद्गर्जमथोग्रयुद्धं प्रपात्य दोष्णैव ममर्द भीमः । दत्तोरुदन्तप्रहृतिच्युतेन महोपलेनेव महेभमद्रिः ॥ ४२ ॥ विद्रावयत्येव समानकालं जीमूतजालं जनको यदीयः । स एकजीमूतजयस्तवेन व्यलजि लोकैः पवनाङ्गजन्मा ॥ ४३ ॥ भीमं प्रति प्रीतिरसप्रसत्त्या सुवर्णवृष्टिं नृपतिः प्रतेने । को वेत्ति देवैस्त्रपया तदानीं प्रसूनवृष्टिर्न कृता कृता वा ॥ ४४ ॥ गनाश्च सिंहाश्च युधे पुरोऽन्तःपुरस्य राज्ञा कुतुकान्नियुक्ताः। भीमे ययुर्भङ्गमुदग्रसिंहनादे दवाचिनिभनेत्रभासि ॥ ४५ ॥ इत्थं लसत्कौतुककौशलाभि-लाभिरामो दयतां नरेन्द्रम् । मासा दशासन्कुरुकुञ्जराणां तेषां विशेषार्चनहर्षितानाम् ॥ ४६ ॥
तत्र च पुरि सेनानीर्मत्स्यनृपालस्य बलनिधिः श्यालः । षष्टयुत्तरशतबन्धुह्येष्ठोऽजनि कीचको नाम ॥ ४७ ॥ स कदापि द्रुपदसुतां ददर्श सदने स्वसुः सुदेष्णायाः । नियमितवेणी मलयजलतिकामिव कलितकालाहिम् ॥ ४८ ॥ रूपं निरूप्य निरुपममस्याः स्वशिरः प्रकम्पयांचक्रे । दुर्मदमदनप्रसृमरशरविसरैरुरसि विद्ध इव ॥ ४९ ॥ अनिमिषदृक्तां पश्यन्स पञ्चबाणेन पञ्चभिर्वाणैः ।
एकैकेनेव हतो हृदि तस्या हृद्तैर्दयितैः ॥ ५० ॥ १. 'निधार्यतां' ग. २. 'मल्लः' ग. ३. 'कदाचिद्रुप' ग. ४. 'कालाहीम्' ग.
Aho! Shrutgyanam