________________
४ विराटपर्व - १ सर्गः ]
२१७
बालभारतम् ।
विराटपर्व |
प्रथमः सर्गः ।
कर्ता जगत्पापविषाहृतीनां स्तात्स श्रिये सत्यवतीसुतो वः । जगच्चमत्कारकमुज्जगार श्रीभारतं नाम सुधारसं यः ॥ १ ॥ पप्रच्छ पृथ्वीशमथो किरीटी कुर्वन्किरीटे करकुका लाग्रम् | छन्नः प्रभो स्थास्यति कैः प्रकारैरिहाब्द भारैर्नभसीव भानुः ॥ २ ॥ द्विजं सभास्तारमवेहि धर्मसुतस्य मां कङ्क इति प्रतीतम् । इत्युक्तिभाक्संसदि मत्स्यभर्तुः स्थाताहमित्याह महीमहेन्द्रः ॥ ३ ॥ भीमोऽभ्यधादित्यथ बल्लवाख्यः सूदो भविष्यामि नृपस्य तस्य । जयो जगौ राजसुतागुरुत्वं नृत्ये गमिष्यामि बृहन्नडाख्यः ॥ ४ ॥ स्थास्यामि गोस्वामितयात्र तैन्तिपालाख्य एवं सहदेव ऊचे । अश्वाधिभूर्यन्थिकसंज्ञयेह स्थाताहमित्थं नकुलोऽप्यजल्पत् ॥ ९ ॥ उवाच कृष्णाप्यथ मालिनीति सैरन्ध्र्यहं तत्र विराटपत्न्याः । ध्रुवं भविष्याम्यनवद्यकर्मकदम्बसंबद्धमिदं पदं हि ॥ ६ ॥ इत्थं मिथो मन्त्रकथेषु तेषु मुनीन्विनम्याभ्युदितेषु गन्तुम् । धौम्यो धियां धाम सुधामयीभिरुवाच वाग्भिर्नयवागुराभिः ॥ ७ ॥ भवद्भिरुद्भिन्ननयैर्विधेया ध्येया विधानैर्नरदेवसेवा | या मृत्यवे शैलशिरोधिरोहपद्येव सद्यः स्खलितक्रमाणाम् ॥ ८ ॥ अहो अहीनामपि खेलनेभ्यो दुःखानि दूरं नृपसेवनानि । एकोऽहिना दृष्ट उपैति मृत्युं क्ष्मापेन दष्टस्तु सगोत्रमित्रः ॥ ९ ॥ आदौ मयैवायमदीपि नूनं न तन्मामवलेहितोऽपि । इति भ्रमादङ्गुलिपर्वणापि स्पृश्येत नो दीप इवावनीपः ॥ १० ॥ सौरभ्यमेवाप्य सदाप्यहीनामानन्दनश्चन्दनपादपोऽभूत् । गुणेन केनापि न भूपतीनां सदा मुदे कोऽपि कथंचन स्यात् ॥ ११ ॥ कुतोऽप्यनासादितजीवनस्य संदेहदोलागतजीवितस्य । तृष्णातिरेकोत्तरस्य कूपझम्पेव सेवा जगतीपतीनाम् ॥ १२ ॥
१. तन्तिर्नाम पश्वादिबन्धुनरज्जुः. 'तन्त्रपाला' क ख २. 'प्यवोचत्' ख ग.
૨૦
Aho ! Shrutgyanam