________________
२०४
काव्यमाला।
जानती मधुनिधानसरोजश्रीरिवाभिरपराधपरं स्वम् । उत्थिते मधुविरोधिनि जाता भूरिभीरिव शरद्गमनेच्छुः ॥ ७७ ॥ यामिनी गुरुतरां रमणीनां सोष्म च स्तनयुगं तुहिनेऽपि । कल्पयन्नथ सहःसमयोऽभूत्कामिनां सुकृतपाकवेशेन ॥ ७८ ॥ चिन्तयन्हृदि जपामनुरक्तां षट्पदोऽधित पदं न फलिन्याम् । रो-रेणुमसितेन सिताङ्गस्तद्वनेऽभ्रमत सैष तपस्वी ॥ ७९ ॥ भास्करोऽपि हिमरुग्ण इव द्योः समकोणपथ एव चचार । वीक्ष्य भानुमिति भानुमणिभ्यः पावकोऽपि हि बहिर्न बभूव ।। ८० ॥ स्म क्रियावहि पराभवपात्रं मा हिमैरहमयं च समेतौ । इत्यवाप्य हृदि मन्त्रमचालीत्पावकस्य हरिते खरतेजाः ॥ ८१ ॥ इन्दुरम्बरतलेऽम्बुनि पद्मं म्लानिमापतुरतीव तुषारैः । एतयोर्युतिरलोकि विलीना पाण्डवैर्द्वपदनामुख एव ।। ८२ ॥ उद्यतेन जगदेव मयेदं दूनमित्यनुशयीव सहस्यः । संस्मृतागततपःसमयोऽसौ वार्धके सति परिव्रजति म ॥ ८३ ॥ अनिललोललवङ्गरजोभरच्छलसुकोमलकेशलवाञ्चितः । . शिथिलपद्मपदः शिशिरः शिशुर्नवसमुद्गतकुन्दरदोऽभवत् ॥ ८४ ॥ निशि खलु घुमणिः फणिविष्टपे व्रजति तच्चिरसङ्गवशादिव । उदकमन्धुषु तापगुणं हिमे भजति शैल्यमिहापरथा तपे ॥ ८५ ॥ हिमभयादुषसि स्फुटमात्मना ढुंदनलो वपुरन्तरदीप्यत । अननि तज्जनिधूमशिखा मुखे तनुमतामतिबाष्पततिस्तदा ॥ ८६ ॥ हिमगुणैरजयजगदप्यदः समय एष कुचौ न तु योषिताम् । इति तयोस्तनुमानिव कुङ्कुमस्तबकमूर्तिरदीपि महाशिखी ॥ ८७ ॥ शिखिधिया कपिभिर्नवकृष्णलासमुदयोऽनुपदं परिपुञ्जितः । नवमहीभिरपि स्फुटकुङ्कुमस्तबकवत्कलितस्तुहिनागमे ॥ ८ ॥ १. 'तरुणीनां' ग. २. 'रसेन' क, ३. 'मन्द' क. ४. 'यदनलो' ख. ५. 'सखी' ग. ६. 'महः' ग. ७. 'वन' ग.
Aho! Shrutgyanam