________________
१८८
काव्यमाला |
शैलाधिपोऽयमिह राज्यमपास्य पाण्डुस्तस्थौ चिरं तव पिता मृगयाविरक्तः ।
तत्क्लृप्तनिर्भरतपः प्रभवैर्यशोभिः
शुभाति पुरस्य हिमांशुशुद्धम् ॥ १० ॥
ध्रुवमवनिधरादतः पितुः स्वा
त्किमपि वशीकरणौषधं गृहीत्वा ।
अहरत वपुरर्धमेव गौरी
पदमधित धुनी तु मूर्ध्नि शंभोः ॥ ११ ॥ नृपालबालश्चिरमद्रिभर्तुः कोडेऽस्य विक्रीडितवान्यतस्त्वम् । तश्वद्वियोगैरिव तापितोऽयं प्रालेयजालानि तनौ तनोति ॥ १२ ॥ मूलस्रुतैर्दृक्श्रुतिविश्वगर्भे प्रत्यन्तशैलप्रभवैर्भुवोऽन्तः । शिरश्रयुतैरस्य हिमांशुपूरैरन्तर्मरुद्वेश्म ररङ्ग गङ्गा ॥ १३ ॥ ग्रीष्मे दिवाकरकरप्रकरार्दितानां
मध्यं दिनेषु नृपकिंकरदम्पतीनाम् । अस्मिन्गलत्तुहिन बिन्दुकदम्बकानि
धाराग्रहश्रियमयन्ति गुहागृहाणि ॥ १४ ॥ तपसि दृढतरो दधाति मूर्ध्ना
विबुधमणीन्वहति क्षमां समन्तात् ।
धरणिधर भवन्तमित्यवश्यं
सुहृदमिवेक्षितुमेष नित्यमूर्ध्वः ॥ १५ ॥
हेलाविलम्बितहिरण्मयरत्नशृङ्गाः
शृङ्गारभासुररुचः सहकारिकान्ताः ।
कान्तारभूवसतयोऽत्र चरन्ति सारं
सारङ्गचञ्चलदृशो मरुतां महेलाः || १६ ||
रैनावलीरुचिचयेन मिथोऽप्यलक्ष्यावेकत्रवासरसिकाविह हस्तिसिंहौ ।
१. 'वेक्षित' क. २० 'मूर्ध्नः' क. ३. 'रत्नावनी' ख-ग.
Aho ! Shrutgyanam