________________
१७०
काव्यमाला।
हिमाद्रिशृङ्गाणि हिमादितानि रसादसाराणि विमुच्य चक्रुः । . नीलाश्मशृङ्गभ्रमतस्तदङ्गे दिग्दन्तिनो दन्तहतीरतीव ॥ २६ ॥ रजस्तमोलङ्घनजाचिकेन क्रोडीचकाराशु हृदा तदानीम् । सत्त्वं स्थितं मूर्तमिवाष्टमूर्ति जगत्रयीमूर्तिमसौ महेच्छः ॥ २७ ॥ तेनासितीव्रतलीलयैव निहन्यमानैरिव भीतभीतैः । तस्मिन्प्रदेशे सकलोऽप्यमोचि द्वेषादिदोषैरसुमत्समूहः ॥ २८ ॥ . पुच्छं चमर्यास्तरुगुच्छलग्नममोचयत्सिहयुवा नखाग्रैः । श्रान्तं रतान्ते कलविङ्कयुग्मं सदृदु व्यज्यत फूत्कृतेन ॥ २९ ॥ शुष्यज्जलादाशु नदादुदस्य तिमिर्दकेऽमोचि बकेन भूरौ । अपाययन्मातृविमुक्तमेणमेणारिनारी कृपया पयांसि ॥ ३० ॥ समं समग्रैर्ऋतुभिर्व्यभूषि वनावनी तत्र विमुक्तवैरैः । आविर्बभूवार्जुनमर्जुनस्य यशो लतापुष्पततिच्छलेन ॥ ३१ ॥ अंसद्वयोत्तंसकृपाणचापं निषङ्गयुग्मव्यतिषङ्गिपृष्ठम् । तपांसि ताशि च तप्यमानं तं वीक्ष्य विक्षोभमगुर्दिगीशाः ॥ ३२॥ प्रीतोद्भुतैस्तस्य तपोभिरेभिः कुतूहली सत्त्वविलोकनाय । तत्राययौ सानुचरः किरातरूपं विरूपाक्षविभुर्विभाव्य ॥ ३३ ॥ वसंमुखं क्रूरतरस्तरस्वी मूकासुरः शूकरमूर्तिरुद्यन् । पुरः शरेणाशु तवानुजेन जन्नेऽनु जघ्ने शशिशेखरेण ॥ ३४ ॥ अयं मयाङ्गीकृत एव लोकः कुतस्त्वयाहन्यत हन्मि तत्त्वाम् । इत्युक्तिभिर्दूतमुखोदिताभिः पार्थ रणार्थ विभुराबभाषे ॥ ३५ ॥ अथोदितास्त्रे शशिभृत्किरीटभिल्ले किरीटी भुजभृत्किरीटः । आरोप्य चापं रचयांचकार ब्रह्माण्डमुन्मण्डपमेव काण्डैः ॥ ३६ ॥ तेनेषुजालेन भिया कराले त्रस्ते समस्ते गणचक्रवाले । प्रभावतस्तस्य धनुर्निषङ्गान्हरोऽहरद्विस्मितमानसस्य ॥ ३७ ॥ कोशादथाकृष्य कृपाणमुद्यत्पाणिः प्रतापी प्रति तं किरातम् । तवानुजो भानुजयोग्रजाग्रदृग्दीप्तिसंदीप्तदिगुच्चचाल ॥ ३८ ॥ १. 'तेनाथ' ग. २. 'भीतिभीतैः' ख.
Aho! Shrutgyanam.