________________
३वनपर्व-१सर्गः] बालभारतम् ।
१७९ यो राजसूयावभृथार्द्रमौलियों धर्मसूर्यो मतधर्मतत्त्वः । शुचां शुचीनामिव तत्प्रसङ्गाद्भागं गृहीत्वा क्षितिपैर्गतं तैः ॥ १३ ॥ [आसीन्महान्मे सह संपरायः सौभेन शाल्वेन हरिजंगाद । भवादृशान्वारयितुं यतोऽज्ञान्द्यूते मया नागतमात्तवैरे ॥ १४ ॥] देशाय सूनुर्द्वपदस्य साकं कृष्णासुतैः पञ्चभिरञ्चति स्म । तदा यदूनां च विभुः सुभद्राभिमन्युयुक्तोऽगमदुग्रमन्युः ॥ १५ ॥ प्रमोदवल्लीं द्विषदुग्रदावदग्धां प्ररोहाभिमुखी प्रतन्वन् । कृष्णो मुनिर्मेघ इवैत्य पार्थे प्रतिश्रुतिं नाम ववर्षे विद्याम् ॥ १६ ॥ सरस्वतीसङ्गसदापवित्रं गतास्ततः काम्यककाननं ते । प्रतिश्रुति साधयितुं किरीटी जगाम जाग्रन्महिमा हिमाद्रिम् ॥ १७ ॥ ददाह संक्रन्दननन्दनस्य दिनैश्च कैश्चिद्दववद्वियोगः । मनो वनोा विततानि तेषां श्रीशोषशोकदुमकाननानि ॥ १८ ॥ इहान्तरे शान्तरसः शरीरी श्रीलोमशो नाम दिवोऽवतीर्णः । ववर्ष देवर्षिवरः कृतार्थे कर्णानुजे कर्णरसायनं गाम् ॥ १९ ॥ त्वं वर्धसे धर्मतनून दिल्या धन्योऽसि मन्यस्व जितानरातीन् । जगत्रयीजैत्रभुजस्य भीमानुजस्य राजन्नमरास्त्रलाभैः ॥ २०॥ गतो हिमाद्रेस्तटमिन्द्रकीलमिन्द्रेण विप्राकृतिना तपोर्थे । विमोचितोऽप्यस्त्रमसावमुञ्चन्स्फुटात्मनाभाषि शिवं भजेति ॥ २१ ॥ तपोवनं चारु ततो गतोऽसौ तपःस्थितो वासविरेकमासम् । दिनत्रयानन्तरपारणानि चकार कारुण्यकलः फलानि॥ २२ ॥ परं तपस्तत्र ततः प्रतन्वन्परं तपः किंचिदचिन्तनीयम् । प्रकाशयामास स मासमात्रं षड्डासरीपारणकं फलानि ॥ २३ ॥ सृजन्नथो मासमुदासवृत्तिर्वपुष्यपि क्षीबयशास्तपांसि । बभक्ष पक्षान्तरितानि शीर्णपर्णान्यपर्णापतिदत्तचित्तः ॥ २४ ॥ स्वयं मरुद्भिः पुरतः स्फुरद्भिः कृताहृतिर्मासि ततश्चतुर्थे । निष्कम्पमूव॑ दधदङ्गमङ्गीचकार ताराणि तपांसि पार्थः ॥ २५ ॥
१. अयं श्लोकः केवलं क-पुस्तक एव दृश्यते. २. 'मन्ये स्वजि' ख. ३. 'मूर्धो' क.
Aho! Shrutgyanam .