________________
१६०
काव्यमाला।
अहासि न तदा तस्मिन्निस्तेजसि जलस्थिते । अब्धिपातिनि मार्तण्डे कैरवैरिव कौरवैः ॥ ६ ॥ हसत्सु सह दासेरैर्भीमार्जुनयमादिषु । अहस्यत प्रतिध्वानैः सभाभित्तिभिरप्यसौ ॥ ७ ॥ धिग्जातास्मि समग्रक्ष्मापतिक्षयनिमित्तकम् । इत्यन्तःपतिते तत्र चकम्पे केलिवापिका ॥ ८॥ वाप्यालवालमध्येऽसौ विरोधद्रुरिवाङ्गवान् । बभौ फलाय कस्मैचिद्विलक्षस्मितपुष्पितः ॥९॥ तापवानुत्थितः सोऽयं तोयोद्धृतनवांशुकः । निश्चितक्षत्रनक्षत्रक्षयो रविरिवार्णवात् ॥ १० ॥ तस्याग्रे स्फाटिकी भित्तिमच्छामनवगच्छतः । गच्छतः स्फुटिते मौलौ ते पुन हसुर्जनाः ॥ ११ ॥ इत्येष रोषवैलक्ष्यावहित्यकृतसंमदः । पतसः पुत्रमापृच्छय प्रपेदे हस्तिनापुरम् ॥ १२ ॥ तादृशी क्ष्माभृतो लक्ष्मी सारं सारं पदे पदे । न रतिं वापि स प्राप मरौ तप्त इव द्विपः ॥ १३ ॥ अमान्तीरिव चित्तान्तर्दुःखसंतापवीचिकाः। तप्तनिश्वासरूपेण मुहुरुद्वमति स्म सः ॥ १४ ॥ कृतकार्यपरिष्वङ्गास्तदङ्गावयवाः क्रमात् । प्रभाधिक्यममुञ्चन्त हेमन्तदिवसा इव ॥ १५ ॥ अथालोच्य मिथस्तेन प्रणुन्नः सौबलो नृपः । प्रज्ञाचक्षुषमुर्वीशं विजनस्थं व्यजिज्ञपत् ॥ १६ ॥ रत्नैरिद्धोऽपि कान्ताभिः सेव्यमानोऽपि त्वत्सुतः ।
कुतोऽपि कृशतामेति प्रावृषेण्य इवार्णवः ॥ १७ ॥ - १. 'धिमयाता' ख, 'धिग्गता' ग. २. 'समरे क्षमापक्षय ख. ३. 'किल' क. . ४. 'स्खलिते' क.ग.
Aho ! Shrutgyanam