________________
२ सभापर्व - २ सर्गः ]
बालभारतम् ।
रुक्मपुत्रयुतं शक्रसुहृदं भीष्माभिधम् ॥ ९९ ॥ मिलित्वाथ परप्रेमशालिनो वनमालिनः । गत्वा चकार सूर्पारदेशं वशगतं बली ॥ ९६ ॥ दण्डकेषु जयन्भूपान्पूजयन्राघवाश्रमान् । गतोऽथ सागरद्वीपं स निषादविषादकृत् ॥ ९७ ॥ छिन्नप्रावरणान्कुर्वन्कर्णप्रावरणान्रणे ।
द्विषां कालसमः कालमुखान्कालमुखान्सृजन् ॥ ९८ ॥ मुरवी पुरवीरालिजयशालियशस्ततिः । दीप्तताम्रायद्वीप नृपदीपसमीरणः ॥ ९९ ॥ रामकाद्विझरस्तम्भीकारिसेनारजश्चयः । रेणाब्धौ शरजालेन गृह्णन्भूपतिमिङ्गिलम् ॥ १०० ॥ अयोध्येष्वेकपादेषु दण्डदेषु दयापरः । उत्कटः करहाटादिदेशात्तकरहाटकः ॥ १०१ ॥ इत्थं युधिष्ठिराज्ञां स राज्ञां मूर्ध्नि किरीटयन् । मलयाद्रितटीं प्राप श्रीखण्डद्रुममण्डनाम् ॥ १०२ ॥ (पञ्चभिः कुलकम् )
तत्र हतपत्राणि दृष्ट्वा केकिविशङ्किभिः । चन्दनाः पन्नगैर्मुक्ता ययुस्तत्सैन्यसेव्यताम् ॥ १०३ ॥ तत्र तस्येभनिर्भग्नचन्दनस्पन्दसिन्धुषु ।
जलकेलिं विलेपं च समं चक्रुश्चमूचराः ॥ १०४ ॥ खेलंस्तमालमाला हेलामेलासु संसृजन् ।
तत्र रिङ्गलवङ्गेषु तमसेवत मारुतः ॥ १०९ ॥
तत्राद्भतभयोद्रेकज्वरजर्जरविग्रहः ।
१४७.
ते कोदण्डपाण्डित्यं न पाण्ड्यः पाण्डवं प्रति ॥ १०६ ॥ तत्रेभभग्नशुक्त्युत्थव्यक्तमुक्ताक्षरावलिः ।
१. 'काधिपम् ' क. २. 'रणाब्धेः' ख. ३. 'भूपं' ख-ग.
Aho ! Shrutgyanam