________________
१३०
काव्यमाला।
सभापर्व।
प्रथमः सर्गः। चन्द्रायमाणाः सुकृताम्बुराशेः सूर्यायिताः साधुहृदम्बुजानाम् । स्फारं त्रिलोकीदुरितान्धकारं पराशरस्याङ्ग्रिनखाः क्षिपन्तु ॥ १ ॥ अथार्ककन्यातटसीम्नि धन्या विष्णुश्च जिष्णुश्च मयासुरश्च । प्रियोक्तयः खण्डवखण्डदाहखेदच्छिदे मैत्र्यजुषो निषेदुः ॥ २ ॥ मयासुरः स्वं वनवह्निमुक्तं जानन्पुनर्जातमिवात्ततोषः ।। पाथै ततो बाहुभृतां वतंसमुवाच कंसद्विषतः समक्षम् ॥ ३ ॥ भाराय दिक्सिन्धुरभूधरास्ते धाता व वाताशन एष शेषः । विश्वंभरां भूरिभरां बिभर्ति परोपकारी पुनरेक एव ॥ ४ ॥ परोपकारे न रतिं करोति यस्तद्भराधिक्यनतां धरित्रीम् । धर्तुं मुकुन्दोऽपि परोपकारिलोकच्छलाद्वल्गति कोटिमूर्तिः ॥ ५ ॥ दीप्तेषु संसारदवानलेषु यशःसुधानीरनिधौ निलीनः । महानिहामुत्र च नैव तापमाप्नोति कुत्रापि परोपकारी ॥ ६ ॥ कथं तपस्तीव्रतरं चरन्ति स्फुरन्ति तीर्थेषु कथं वृथैव । सतां नितान्तं सुकृतानि तानि परोपकारव्रतमेव धत्ते ॥ ७ ॥ वित्तादिदानप्रभवा भुवोऽन्तः परोपकाराः कति न प्रतीताः । अमी शतांशेऽपि समीभवन्ति भयार्तजन्तोरभयार्पणैः किम् ॥ ८॥ न किंचन प्रत्युपकारमूचे स्थिरं विरञ्चोऽप्यभयप्रदातुः । तत्कैरहं पार्थ तवार्थपूरसंपूरणैरप्यनृणो भवामि ॥ ९ ॥ पितुः कलादातुरभीतिदातुर्मातुश्च किं प्रत्युपकारकर्म । इति स्मरन्तो हृदि केऽपि खेदं तदनिभक्त्यैव येदि क्षिपन्ति ॥ १० ॥ त्वज्ज्येष्ठयोः पार्थ तवापि पादपूजां ततः कामपि कामयिष्ये । इति प्रतिज्ञाय तदा तदने तिरोदधे दानवसूत्रधारः ॥ ११ ॥ किरीटिनः खाण्डवदाहमित्रं श्रीखाण्डवप्रस्थपुरान्मुरारिम् । प्रैषीदथ द्वारवतीपुराय तं पूजयित्वा तपसस्तनूजः ॥ १२ ॥ १. 'दत्ते' ख-ग, २. 'न' ग. २. 'दिनम्' क.
Aho! Shrutgyanam