________________
भूमिका ।
अयं हि बालभारतमहाकाव्यकर्ता श्रीमदमरचन्द्रः कस्मिन्काले कतमं भूमिमण्डलं मण्डयामासेति मीमांसायां जैनराजशेखरसूरिणा १३४८ ख्रिस्ताब्दे विरचिते प्रबन्धकोषे "अणहिल्लपत्तनासन्नं वाघटं नाम महास्थानमास्ते चतुरशीतिमहास्थानानामन्यतमत्(म्) । तत्र परपुरप्रवेशविद्यासंपन्नश्रीजीवदेवसूरिसंताने श्रीजिनदत्तसूरयो जगर्जुः । तेषां शिष्योऽमरो नाम प्रज्ञालचूडामणिः । स श्रीजिनदत्तसूरिभक्तात्कविराजादमरसिंहात्सिद्धसारखतं मन्त्रमग्रहीत् । तद्गच्छमहाभक्तस्य विवेकनिधेः कौष्टागारिकस्य पद्मस्य विशालतमे सदनैकदेशे विजने एकविंशत्या वाग्लै()निद्राजयास(श)नजयकषायजयादिदत्तावधानस्तं मन्त्रमजपत् । विस्तरेण होमं च चक्रे । एकविंशतितम्यां रात्रौ मध्यप्राप्तायां नभस्युदिताचन्द्रबिम्बानिर्गत्य स्वरूपेणागत्यामरं भारती करकमण्डलुजलमपीप्यत् , वरं च प्रादात्-'सिद्धकविर्भव, निःशेषनरपतिपूजागौरवितश्वैधि' इति । वरं दत्त्वा गता भगवती । जातः कविपतिरमरः। रचिता काव्यकल्पलता नाम कविशिक्षा, छन्दोरत्नावली, मुक्तावली च । कलाकलापाख्यं च शास्त्रं निबद्धम्, बालभारतं च । बालभारते च प्रभातवर्णने
'दधिमथनविलोलल्लोलदृग्वेणिदम्भा
दयमदयमनङ्गो विश्वविश्वकजेता। भवपरिभवकोपत्यक्तबाणः कृपाणश्रममिव दिवसादौ व्यक्तशक्तिर्व्यनक्ति ॥'
(आदिपर्व-स० ११ श्लो०६) इत्यत्र वेण्याः कृपाणत्वेन वर्णनात् 'वेणीकृपाणोऽमरः' इति विरुदं कविवृन्दाल्लब्धम्, दीपिकाकालिदासवत् घण्टामाघवच्च । कवित्वप्रसिद्धेश्च महाराष्ट्रादिनरेन्द्राणां पूजा उपतस्थिरे । तदा वीसलदेवो राजा गुर्जराधिपतिर्धवलकके राज्यं प्रशास्ति । तेनामरकवर्गुणग्रामः श्रुतः । ठक्कुरं वइजलं(?) प्रधानं प्रेष्य प्रातराहूतः कवीन्द्रः । आ. सनादिप्रतिपत्तिः कृता । सभा महती। अमरेण पठितम्
'वीक्ष्यैतद्भुजविक्रमक्रमचमत्कारं निकारं मयि
प्रेम्णो नूनमियं करिष्यति गुणग्रामैकगृह्याशया । १. 'वायटनाम्नि' इति बालभारतपाठः. २. 'पुरं शरीरे' इति हैमः. ३. संतानवर्णनं चरमसर्गे. ४. तथा च हम्मीरमहाकाव्ये वर्णितम्-'वाणीनामधिदेवता स्वयमसौ ख्याता कुमारी ततः प्रायो ब्रह्मवर्ता स्फुरन्ति सरसा वाचां विलासा ध्रुवम् । कुकोकः सुकृती जितेन्द्रियचयो हर्षः स वात्स्यायनो ब्रह्मज्ञप्रवरो महाव्रतधरो वेणीकृपाणो. ऽमरः ॥ इति.
Aho! Shrutgyanam