________________
१आदिपर्व-१०सर्गः]
बालभारतम् ।
१०७
अङ्गकान्तरविलोकिनि नेत्रे भर्तुरैक्षत मुखं प्रसृताक्षी । तत्र पश्यति पुनर्वदनाजं न्यङ्मुखीव निभृतं त्रपयाभूत् ॥ ३९ ॥ आननं प्रियतमस्य दिक्षुर्वीक्षितुं पुनरनीशतमैव । काप्यशिक्ष्यत हियैव नवोढा नेत्रकोणकविलोकितकानि ॥ ४० ॥ अङ्गके प्रियतमस्य मृगाक्ष्या यत्र यत्र नयनं निपपात । विव्यधे मधुसखेन पृषत्कैस्तत्तदङ्कितशरव्यमिवाशु ॥ ४१ ॥ मानसानि निभृतेक्षणपीतोन्मृष्टमप्यरसयन्नयनोष्ठम् । आननैरथ रसस्तरुणानां पातुषि कटुरेति रसत्वम् ॥ ४२ ॥ यावदिच्छति मुदाधरपानं कामुको मदवशंवदचित्तः । रक्तया स्वकरकुञ्चितकेशस्तावदेव चकृषे मदिराक्ष्या ॥ ४३ ॥ कापि पातुमुदिते हृदयेशे संभ्रमादपसरन्मृदुमौग्ध्या । ह्रीमती च मदनेन च दूना नार्पयच्च न जहार च वक्रम् ॥ ४४ ॥ लोभयन्मलयजादिभिरीशः संमुखीमकृत कामपि मुग्धाम् । येन मौग्ध्यकवचा कुसुमेषुर्नेषुभिर्व्यथयितुं प्रभुरेनाम् ॥ ४५ ॥ अक्षिपञ्शयनमूर्धनि चक्षुः सुभ्रवः स्मरवशेन यदैव । निन्यिरे स्वयमुदस्य कराभ्यां तत्र ताः खलु तदैव हृदीशैः ॥ ४६ ॥ संगमेच्छुरपि कापि नवोढा श्लिष्यतो ननननेति वदन्ती । भीपदे वहतु कम्पि शरीरं हृष्टरोम तु वरस्य रसाय ॥ ४७ ॥ शिक्षिता मुहुरुपांशु सखीभिश्चाटु यत्प्रियवशीकृतिमन्त्रम् । तत्प्रकाशयितुमत्र नवोढा गुप्तमेनमजपद्रसनाग्रे ॥ ४८ ॥ वाणिनीभिरुरुभिः श्रवणान्ताकृष्टमुक्ततरलैनयनान्तैः । ताडिताः स्मरशरैरिव कम्पं स्वेदमश्नु च भजन्तु युवानः ॥ ४९ ॥ उत्तरीयहरणे परिणेतुर्द्राङ्मुधा करमरुद्ध कराभ्याम् । कापि गूढरसमूढमनस्का स्त्रस्तनीविनि नितम्बदुकूले ॥ ५० ॥ हारकान्तिलहरी हरिणाझ्या वक्षसोंऽशुकधिया मुहुरस्यन् । कोऽपि तत्प्रहसितत्रपमाणो मीलिताक्षमसृजत्परिरम्भम् ॥ ५१॥ .
Aho! Shrutgyanam