________________
आरम्भ-सिद्धिः
व्याख्या-षण्णामिति निर्धारणे षष्ठी । ज्यादिष्विति अन्यतरेषु त्रिषु चतुर्दोत्कर्षतः पञ्चसु वा स्वकीयेषु यः स्थितः, न तु कदापि षट्सु संभवति, अन्दोस्त्रिंशांशस्य कुजादीनां होरायाश्चाभावात् , स स्ववर्गस्थस्तत एव च सबल: । एवमेवेति यस्तु ब्यादिषु परकीयेषु स्थितः सोऽन्यवर्गस्थस्तत एव विबलन । विशेषस्तु यत्र नवांशे षण्णां पञ्चानां चतुर्णा वा गृहाद्यन्यतरेषां सौम्य एव ग्रहस्वामी लभ्यते स नवांशः षड्वर्गस्य पञ्चवर्गस्य चतुर्वर्गस्य वा सौम्यत्वात् प्रतिष्ठादिलग्नेषु विशेषतो ग्राह्यः । स चैवं निर्धारितः, तथाहि" सत्तमनवमा मेसे १ पंचमतइआ विसे २ मिहुणि छठ्ठो ३ । पढमतइआ य कके ४ सिंहे छटो ५ कणी तइओ ६ ॥ १ ॥ अठ्ठमनवमा य तुले ७ विच्छियलग्गे चउत्थय नवंसो ८ । धणुलग्गि छट्ठसत्तमनवमा ९ मयरम्मि पंचमओ १० ॥ २ ॥ छठमा य कुंभे ११ पढमो तइओ अ मीणलग्गम्मि १२ । चउपणवग्गछवग्गो एएसु नवंसएसु सुहो” ॥ ३॥ व्याख्या-अत्र चउपणवग्गत्ति एषु नवांशेषु चतुर्वर्गशुद्धिस्तावदस्येव, पञ्चवर्गशुद्धिषड्वर्गशुद्धी तु केषुचिन्नवांशेषु संपूर्णेषु स्तः, केषाचित्तु किया। भागे स्त, तद्वयक्तिश्च ग्रन्थप्रान्तकाव्यवृत्ती लिखिताऽस्ति ततोऽभ्यूह्या। इह च केचित्रिवर्गशुद्धयाऽप्यन्ये तु नवांशस्यैव प्रभुत्वात्तमेवैकं सौम्यसत्कमादाय शेषवर्गशुद्धिं विनाऽपि लग्नमाद्रियन्ते, तदत्रेदं तत्त्वं-लग्ने ध्रुवग्राह्यनवांशशुद्धौ सत्यां यथा यथा शुभबहुवर्गलाभस्तथा तथा प्रतिष्ठादौ शुभकार्ये तद्विशिष्य ग्राह्यम् ॥ राशिप्रसङ्गादाशिभोक्तृप्रहाणां प्रभेदमाहग्रहाः स्युरैन्न्द्याद्यधिपा दिनेश १ शुक्रा२र३
राहा ४ किं५ शशि ६ ज्ञ ७ जीवाः ८ । पापाः कृशेन्द्रर्कतमोऽसितारास्तैः
संयुतो ज्ञश्च परे तु सौम्याः ॥२५॥ व्याख्या-पूर्वाद्यष्टदिशा क्रमानाथा एते । स्थापना
Aho! Shrutgyanam