________________
प्रथम विमर्श:
अथ ग्रहाणां लग्नस्य च स्पष्टीकरणे तद्भक्त्युपयोगि सर्वषड्वर्गाणां साधारणं लिप्तामानमाह-
षड्वर्गेऽष्टादश १८०० नव९०० षड्
६००द्वे२०० सार्धं१५०शतानि षष्टिश्च ६० ।
क्रमशो गृहहोरादौ लिप्ताः
स्युः प्रभुरिह नवांशः ॥ २३ ॥
व्याख्या- -गृहाणां मेषादीनां सर्वेषां प्रत्येकं मानमष्टादशशती लिप्ताः होराणां नवशती गृहार्धरूपत्वात् द्रेष्काणानां षट्शती गृहत्रिभागरूपत्वादित्यादि स्वयं भाव्यं । लिप्ता तु षष्टिविलिप्तात्मिकेति वक्ष्यते । विशेषस्तु -." चन्द्रबलं किल तिथ्यादिबलेभ्यः शतगुणं, ततोऽपि लग्नं सहस्र गुणबलं, ततोऽपि होराद्या: सर्वे यथोत्तरं पञ्चपञ्चगुणबला " इति बृहज्जातकवृत्तौ । अथैषु नवांशस्यैव प्राधान्यमाह - प्रभुरित्यादि इहास्मिन् गृहादिषड्वर्गेऽनतिस्थूलसूक्ष्मत्वात्प्रतिष्ठाविवाहादिसर्वकार्येष्वधिकारी नवांश एवेत्यर्थः । यल्लल:
66
"
--
" स्वार्धे नक्षत्रफलं तिथ्यर्धे तिथिफलं समादेश्यम् । होरायां वारफलं लग्नफलं त्वंशके स्पष्टम् ॥ १ ॥ तथा अो नवांशस्य प्राधान्यं ? तथाहि
७१
लग्ने शुभेऽपि यद्यशः क्रूरः स्यान्ने प्रसिद्धिदः । लग्ने क्रूरेऽपि सौम्यांशः शुभदोऽंशो बली यतः ॥ १ ॥ इति दैवज्ञवल्लभे । तथा क्रूरांशस्थः सौम्यग्रहोऽपि क्रूरः स्यात्, सौम्यांशस्थस्तु क्रूरोऽपि सौम्यः स्यादिति लल्लः । तथा कूरांशस्थस्य सौम्यग्रहस्यापि दृष्टिर्दुष्टा, सौम्यांशस्थस्य च क्रूरस्यापि दृक् शुभा । तथा ग्रहगोचरशुद्धिविचारणावसरे ग्रहो राशिगोचरेणाशुभोऽपि नवांशगोचरेण यदि शुभः स्यात्तर्हि शुभ एवेत्यादि ललश्रीपती ॥ अथ यथा ग्रहः स्ववर्गगोऽन्यवर्गगो वा स्यात्तथाssहषण्णां त्र्यादिषु वर्गेषु यो ग्रहः स्वेष्ववस्थितः । स स्ववर्गगतो ज्ञेय एवमेवान्यवर्गगः ॥ २४ ॥
Aho! Shrutgyanam
-