________________
६२
आरम्भ-सिद्धिः
अर्का युच्चान्यज१ वृष २ मृग ३ कन्या ४ कर्क ५ मीन ६ वणिजो ७ शैः ।
दिग १० दहना ३ टाविंशति २८ तिथी
१५ षु ५ नक्षत्र २७ विंशतिभिः २० ॥ ११ ॥
ब्याख्या -- अजेति मेववृषमकराद्याः क्रमात्सूर्यादीनामुच्चस्थानानि । वणिगिति उपलक्षणत्वात्चुला । कैः कृत्वाऽजादयोऽर्काद्युच्चानीत्याह--- दिग्दहनादिमितैरंशैरिति, कोऽर्थः ? दिग्मितैरंशमेषो ख्युच्च मेषस्याद्या दश त्रिंशांशा न्युच्च - मित्यर्थः । एवमग्रेऽपि यथा वृषस्याद्यास्त्रयस्त्रिंशांशा इन्दूचं, मकरस्याष्टाविंशतिरंशा भौमोच्चमित्यादि । अत्र संप्रदायस्त्वयम् - मेषेऽर्क उच्चस्तत्रापि दशांशान् यावत्परमोच्चः पश्चात्तच्चः । शशी वृषे उच्चस्तत्रापि त्रीनंशान् यावत् परमोच्चः पश्चातूच्च इत्यादि । लोकश्रूयादिप्रन्यैः सह संवादी चायं संप्रदायः । लघुबृहज्जातकनारचन्द्रादीनाम मिप्रायस्त्वयं - "मेषेऽर्क उच्चस्तस्यैव दशमे त्रिंशांशे तु परमोच्चः । शशी वृषे उच्चस्तस्यैव तृतीयांशे तु परमोच्चः । भौमो मकरे उच्चः तस्यैवाष्टाविंशेंऽशे परमोच्चः" इत्यादि । ताजिके तु नास्ति परमोच्चसंज्ञा, किंतु मेषे आद्यदशभागान् यावत्सूर्य उच्चः पश्चात्तु तेजःपतित इत्युक्तं । एवं वृषादिषु चन्द्रादीनामपि वाच्यम् ॥ स्वोचतः सप्तमं नीचं त्रिकोणान्यथ भानुतः सिंहो ५ क्ष २ मेष १ प्रमदा ६ धनु ९ र्घट ७ घटाः ११ क्रमात् ॥१२॥
99
व्याख्या - यस्य यस्य यद्यदुच्चं तस्माद्यद्यत्सप्तमं तत्तत्तस्य नीचे दिग्दहनाष्टाविंशतीत्यादिरंश संख्याऽत्रापि योज्या । ततश्चायमर्थः उच्चवन्नीचेऽपि वाच्यः । तथाहि - मेषात्सप्तमे तुलायामाद्या दश त्रिंशांशा रथेनींचं, वृषात्सप्तमस्य वृश्चिकस्वाद्यास्त्रयस्त्रिंशांशा इन्दोनीचं । अत्रापि संप्रदायस्वयम् - तुलायां रविनचस्तत्रापि दशांशान् यावत् परमनीचः पश्चात्तु नीचः, एवं चन्द्रादिष्वपि वाच्यं । पाकश्वयादिग्रन्थैः सह संवादी चायं संप्रदायः । जातकनारचन्द्राद्यभिप्रायस्त्व
Aho! Shrutgyanam