________________
५८
आरम्भ-सिद्धिः
॥ द्वितीयो विमर्शः ॥ ५
॥ अथ राशिद्वारम् ॥ ५ राशिरथ तत्र मेषोऽश्विनी च भरणी च कृत्तिकापादः । वृषभस्तु कृत्तिकांहि त्रयान्विता रोहिणी समार्गार्धा ॥१॥ मिथुनो मृगार्धमार्द्रा पुनर्वसोश्चांहयस्त्रयः प्रथमे । कर्की च पुनर्वस्वोः पादः पुष्यस्तथाऽश्लेषा ॥ २ ॥ सिंहस्तु मघाः पूर्वाफल्गुन्यः पाद उत्तराणां च । कन्योत्तरात्रिपादी हस्तश्चित्रार्धमाद्यं च ॥ ३ ॥ तौली चित्रान्त्यार्धं स्वातिः पादत्रयं विशाखायाः । स्यादुवृश्चिको विशाखाचतुर्थपादोऽनुराधिका ज्येष्ठा ॥ ४ ॥ धन्वी मूलं पूर्वाषाढाऽपि च पाद उत्तराषाढः । स्यान्मकर उत्तराषाढांहित्रितयं श्रुतिर्धनिष्ठार्धम् ॥ ५ ॥ कुंभोऽन्त्यधनिष्ठार्थं शततारा पूर्वभाद्रपात्रिपदी । मीनो भाद्रपदांहिस्तथोत्तरा रेवती चेति ॥ ६ ॥
व्याख्या - एषां भावना-राशिकल्पनेऽभिजित् पृथग्न गण्यते, ततः सप्तविंशतौ भेषु प्रत्येकं पादचतुष्क भावाद्येऽष्टोत्तरं शतं नक्षत्रपादा वर्णनैयध्यकथनेन प्रा सूचितास्तेषु नवभिर्नवभिः पादैरेकैको राशिरिति द्वादश राशयः स्युः, अत एव पुरुषादिनामसु राशिकल्पनानक्षत्रपाद नियमितवर्णान् ज्ञात्वा नामाद्यवर्णाः कार्याः । अभिजितस्तु पादत्रयस्य वर्णा उत्तराषाढाया अन्त्यपादे तदन्त्यपादस्य वर्ण: श्रवणस्याद्यपादे चान्तर्भाव्याः ॥
मेषादीनां वर्णानाह---
Aho! Shrutgyanam