________________
३२
कश्रीग्रन्थे । तथा
66
तिथिधिष्ण्यं च पूर्वार्ध बलवद्दुर्बलं ततः ।
33
नक्षत्रं बलवद्रात्रौ दिने बलवती तिथिः # 9 11
इति व्यवहारसारे ।
आरम्भ-सिद्धिः
॥ इति भद्वारम् ॥ ३ ॥
॥ अथ योगः ॥ ४
तत्रादौ रन्यादिसप्तवारेषु प्रत्येकं शुभाशुभयोगवाचकाश्चतुर्दश श्लोका इमेभानौ भूत्यै करादित्यं पौष्णब्राह्ममृगोत्तराः । पुष्यमूलाश्विवासव्यश्च काष्टनवमी तिथिः ॥ ३९ ॥ व्याख्या - भूत्यै शुभयोगायेत्यर्थः । करो हस्तः, पौsi रेवती, ब्राह्म रोहिणी, उत्तरास्तिस्रः, वासवी धनिष्ठा । नवमीति एकाष्टनवशद्वानां द्वन्द्वं कृत्वा ततः पूरणे मट्प्रत्ययः एवमन्यत्रापि यथायोग्यं व्युत्पाद्यं । इह वारभयोरतिथ्यर्वा द्विकशुभयोगः, वारभतिथीनां तु त्रिकशुभयोगः । एवं कुयोगेऽपि वाच्यम् ॥
,
न चाक वारुणं याम्यं विशाखात्रितयं मघा । तिथिः षट्सप्तरुद्रा ११ र्क १२ मनु१४ संख्या तथेष्यते ॥ ४० ॥
व्याख्या - याम्यं भरणी । विशाखात्रितयमिति विशाखादित्रयेण क्रमादुत्यात मृत्युकाणाः कुयोगाः स्युः एवमग्रेऽपि कुयोग श्लोकस्थंत्र यशब्देपू । मनवचतुर्दश नेष्यते इति कुयोगोत्पत्तेरिति शेषः ॥
सोमे सिद्धयै मृगब्राह्ममैत्राण्यार्यमणं करः ।
श्रुतिः शतभिषक् पुष्यस्तिथिस्तु द्विनवाभिधा ॥ ४१ ॥ व्याख्या - मैत्रमनुराधा, न तु मृदुसंज्ञभानि पृथग्मृगशीषोंतेः एवमग्रेऽपि यथासंभवं विचार्य | आर्यमणं उत्तरफल्गुनी । श्रुतिः श्रवणः (णं ) ॥
I
Aho! Shrutgyanam