________________
प्रथम विमर्शः
साधारणमिति न स्थिरं न चलं न तीक्ष्णं न मृदु इत्यर्थः । नाम्नां प्रयोजनमाह - ईहगित्यादि ईदृशेन चरादिनाम्ना कर्मणोऽनुरूपे भे । कोऽर्थः ? यादृश भस्य नाम तादृशं कर्म तत्र भे कार्यम् ॥ एतदेवाह -
कुर्यात्प्रयाणं लघुभिश्वरैश्च, मृदुधुवैः शान्तिकमाजिमुग्रैः । व्याधिप्रतीकारमुशन्ति तीक्ष्णैमिश्रैश्च मिश्रं विधिमामनन्ति व्याख्या - प्रयाणमिति पण्यभूषणकलारतौषधज्ञानविज्ञानवाहनोद्यानिकापलक्ष्यं एवमग्रेऽपि, शान्तिकमति बीजगृहनगराभिषेकारामभूषण वस्त्रगीतमङ्गलमित्रकार्यादि स्थिरकर्म च । आजिमिति वञ्चनाविषघातबन्धनोच्छेदनशस्त्राग्निकमद्यपि | व्याधीति भूतयक्षमंत्रनिधिसाधन भेदकर्माद्यपि । उशन्ति वान्छन्ति । मिश्रमिति साधारणं । स्वर्णरजतताम्रलोहाद्यनिकर्म सर्वं तथा वृषोत्सर्गानिपरिग्रहादि च विशेषास्तु-
"
लहू चरेसु आरंभो उग्गरिख्खे तवं चरे । धुवे पुरपवेसाई मिसेस्ससंधिक्कियं करे " ॥ १ ॥
""
"
इति दिनशुद्धिग्रन्थे । तथा
" तीक्ष्णोप्रभोक्तं विदधीत मिश्र, क्रूरोदितं दारुणभेषु कुर्यात् । तीक्ष्णोग्रमिश्रर्यदिहोदितं तन्मृदुधुवैः क्षिप्रचरैर्न कुर्यात् ॥ १ ॥ प्रायः शान्ते कार्ये न योजयेत्कृत्तिकास्त्रिपूर्वाश्च । वारणरौद्रे च तथा द्विदैवतं याम्यमश्लेषाम् ॥ २ ॥
".
स्थिर २ श्वर १ स्तथोग्रश्च ३ मिश्रो ४ लघु ५ रथो मृदुः ६ । तिक्ष्णश्च ७ कथिता बारा: प्राच्यैः सूर्यादयः क्रमात् ॥ १ ॥
अस्य प्रयोजनं तु चरादित्वेन सदृशानां वाराणां भानां च योगः प्रयाणादौ विशिष्य प्रयोजक इति ॥
सप्तविंशतेर्भानां चन्द्रेण भोगे मुहूर्त्तसङ्ख्यामाह
भेषु क्षणान् पञ्चदशैन्द्ररौद्रवायव्य सर्पान्तकदारणेषु । त्रिघ्नान् विशाखादिति भध्रुवेषु शेषेषु तु त्रिंशतमानन्ति ।।
२९
4
Aho! Shrutgyanam