________________
आरम्भ-सिद्धिः त्रिंशतं च संस्थाप्य यद्यस्माच्छुध्यति तत्तस्माच्छोध्यते ततः शेषेऽर्थीकृते यत्स्यात्तावद्भिः पलैः । तथाहि-श्रीगौर्जरपत्तने उत्कृष्टं कर्कादिदिनमानं घटी ३३ पल ४८, अन्न घट्यंकात् त्रिंशद्रूपस्य घव्यंकस्य शोधने स्थितं घटी ३ पल ४८, अस्मिन्नर्धिते घटी १ पल ५४, पलीकरणा) घट्यंकस्य षष्टि ६० गुणने ५४ क्षेपे च जातं पल ११४ मितैः कर्काद्यदिने सूर्योदयभवनानन्तरं वारो लगति । तथा तत्रैव पत्तने जघन्यं मकराद्यदिनमानं घटी २६ पल १२, त्रिंशन्मध्यात घट्यंकस्य शोधने स्थितं घटी ३ पल ४८, प्राग्वदर्धिते पलीकृते च ११४ पलैर्मकराद्य दिने सूर्योदयभवनादर्वाग्. वारो लगति । एवं मध्यमदिनमानेष्वप्यानेयं प्रयोजनं चात्र वारप्रवृत्तित एवारभ्य वक्ष्यमाणानां कालहोराणामधयामादीनां च गणना कार्येति । दिनमानानयने च स्थूलोपायोऽयं-- “ रसद्वि २६ नाड्योऽर्क १२ पला मृगे स्युः,
सचापकुंभेऽष्टकृतैः पलैस्ताः २६-४८ । अलौ च मीनेऽष्टयमाः सशका २८-१४,
__ मेषे तुलायामपि त्रिंशदेव ३० ॥ १ ॥ कन्यावृषे भूशिखिनो३१ऽङ्गवेदैः ४६.
सार्कास्त्रिरामा मिथुने च सिंहे ३३-१२ । कर्के त्रिरामा वसुवेदयुक्ता ३३-४८,
एषामितिः संक्रमवासराणाम् ॥ २ ॥ तवं चएकार्क १-१२ पक्षद्विशरा २-५२ स्दिन्ताः ३ ३२, विदन्त ३-३२ पक्षद्विशराः २-५२ कुसूर्याः १-१२ । मृगादिषट्केऽहनि वृद्धिरेवं, कर्कादिषट्केऽपचितिः पलाद्या ॥ ३ ॥" ___अत्रापचितिर्हानिः । पलायेति अनेनैकात्यादौ आद्यः पलाङ्को द्वितीयस्स्वक्षराङ्क इति भावः । अहवृध्ध्या च निशो हानिस्तद्धान्या चेतरवृद्धिः स्वयमूया। एवं च वृद्धिहानिपलप्सर्वाग्रमिदम् - "वढइ छसु मयराइसु पलाण छत्तीस ३६ छलसि ८६ छहिअसयं १०६ ।
कमउक्कमओ हायइ तहेव कक्काइरासीसु ॥ १ ॥
Aho! Shrutgyanam