________________
प्रथम विमर्शः
तत्र शास्त्रस्यादौ मङ्गलाभिधेयसंबन्धप्रयोजनानि वक्तव्यानीत्युक्तिप्रामाण्याइादौ मङ्गलार्थ समुचितेष्टदेवतानमस्कारमाह
ॐ नमः सकलारम्भसिद्धिनिर्विघ्नवेधसे ।
अर्हणामर्हते साक्षादुपलम्भाय शंभवे ॥ १ ॥
व्याख्या-शं सुखाय भवतीत्येवंशील: "शं स्वयंविप्राद्भुवो डूः " इत्यनेन डु प्रत्यये शंभुतस्मै शंभवे जिनाय नमोऽस्तु । ग्रन्थस्य सर्वपार्षदत्वार्थ श्लिष्टशब्दप्रयोगोऽयं । शंभवे किंभूताय ? ॐ अवतीत्यौणादिके मप्रत्यये अटि गुणेस्वरादित्वादव्ययत्वे च सिद्धिः तस्मै परब्रह्मरूपायेत्यर्थः । अत्र धुरि मातृकायामिव " ॐ नमः" इति पठितसिद्धमंत्रोपन्यासः । प्रयोजनं चास्य निर्विघ्नमिष्टार्थसिद्धिः । तथा सकलानां अर्थाच्छुभारम्भाणां सिद्धौ निर्विघ्नस्य विघ्नाभावस्य वेधसे स्रष्ट्र, ध्यातृणामिति शेषः । अत्र युक्त्या 'आरम्भसिद्धिः' इति ग्रन्थनामसूचा । तथाऽर्हणां पूजामर्हते अर्हाणामर्हते ' इति पाठे तु पूज्यानां पूज्याय । साक्षादुपलम्भो ज्ञानं यस्य यस्माद्वा तस्मै ॥ १ ॥ अथाभिधेयसम्बन्धप्रयोजनान्याहदैवज्ञदीपकलिकां व्यवहारचर्या
मारम्भसिद्धिमुदयप्रभदेव एताम् । शास्ति क्रमेण तिथि वार२ भ३ योग४ राशि५ गोचर्य कार्य७ गम, वास्तु९ विलग्न१० मित्रैः११॥२॥
ब्याख्या-दैवज्ञानां गणकानां दीपकलिकामिव स्पष्टार्थप्रकाशितत्वात् । व्यवहारः शिष्टजनसमाचारः शुभतिथिवारभादिषु शुभकार्यकरणादिरूपस्तस्य चर्या इतिकर्तव्यतारूपाऽभिधेयतया यस्यां सा तां । एवं च व्यवहारचर्या इत्यनेनाभिधेयोक्तिः, तदुक्त्या चैतद्ग्रन्थस्य व्यवहारायाश्च वाच्यवाचकभा. वसंबन्धोऽपि मूचितो ज्ञेयः, व्यवहारचर्येति चास्य ग्रन्थस्य नामान्तरं । प्रयो
Aho! Shrutgyanam