________________
पचमो विमर्श
२०५
दुर्गादिकानामिति आदेर्भूतयक्षगणसर्पादिग्रहणं । तथा" गणपरिवृढरक्षोयक्षभूतासुराणां, प्रथमफणिसरस्वत्यादिकानां च पोष्णे। श्रवसि सुगतनाम्नो वासवे लोकपानां, निगदितमखिलानां स्थापनं च स्थिरेषु ॥ २॥"
भन्नाखिलानामिति उक्तशेषाणामिन्द्रादीनां स्थिरेषु ध्रुवमेषु । तथा"सप्तर्षयो यत्र चरन्ति धिष्ण्ये, कार्या प्रतिष्ठा खलु तत्र तेषाम् । श्रीव्यासवाल्मीकिघटोद्भवानां, तथा स्मृता वाक्पतिमे ग्रहाणाम् ॥३॥"
भत्र सप्तर्षयो यत्रेत्यस्यायं भाव:" आसन्मघासु मुनयः शासति राज्यं युधिष्ठिरे नृपती । पद्विकपञ्चद्वि२५२६मितः शककालस्तस्य राशश्च ॥ १॥ एकैकस्मिन् धिष्ण्ये शतं शतं ते चरन्ति वर्षाणाम् । प्रागुत्तरतश्चैते सदोदयन्ते ससाध्वीकाः ॥ २॥"
अत्र आसन्मघास्विति युधिष्ठिरराज्यसमये सप्तर्षयो मघायामभूवन् । तदनु पद्विशत्यधिकपञ्चविंशतिवर्षशतैर्गतैः शककालो लमः, एकैकमे च वर्षशतमेषां स्थितिा, भतः शकादौ ते पुष्येऽभूवनित्यागतं । एषामुदयव्यवस्था चैवं
" पूर्व भागे भगवान् मरीचिरपरे स्थितो वशिष्ठोऽस्मात् । तस्याङ्गिरास्ततोऽत्रिस्तस्यासन्नः पुलस्त्यश्च ॥ १ ॥ पुलहः क्रतुरिति भगवानासन्नानुक्रमेण पूर्वाद्याः ।
तत्र वशिष्ठं मुनिवरमुपस्थिताऽरुन्धती साध्वी ॥ २ ॥" - इदं सप्तर्षिस्वरूपं वाराहसंहितायां । श्रीग्यासेति यत्र मे सप्तर्षयवरम्ति तत्रैव मे श्रीग्यासादीनामपि प्रतिष्ठा कार्या। वापतिमे इति ग्रहाणां स्वस्खवारेतु पुण्यमे प्रतिष्ठा कार्या । तथा
" स्वतिथिक्षणनक्षत्रकरणेषु न्यसेन्सुरान् ।। वापोकूपतडागाद्यं न्यस्येद्वरुणदेवते ॥ १ ॥ अहिर्बुध्नाधिपे लेप्यमारामाद्यं तथाऽनिले ।
गृहस्थापनयोगा ये तानप्यत्र विचिन्तयेत् ॥ २॥" इति दैवज्ञवल्लभे। इदं देवतान्तरादिप्रतिष्ठादिस्वरूपं ज्योतिर्विदा सम्मतमिति प्रसङ्गादुक्कं ॥
Aho! Shrutgyanam