________________
आरम्भ-सिद्धिः
निद्राण इति, इदं वचो लोकरूढ्या आषाढकार्तिक शुक्लैकादश्योरन्तरालकाले इत्यर्थः । अधिमासे इति, यदाउमावास्यामध्ये एका सङ्क्रान्तिर्लगेत् भन्या चान्यमासप्रतिपदि तदा सक्रान्तिहीनो मध्येऽधिकमासः । उक्तञ्च" एकोऽमावास्यायां भवेद्रवेः सङ्क्रमः परो दर्शात् । ऊध्व जायेत यदा तदाऽधिमासः शुभेऽनिष्टः ॥ १ ॥ " विशेषस्तु" मासद्वयेऽब्दमध्ये तु सङक्रान्तिनं यदा भवेत् । प्राकृतस्तत्र पूर्वः स्यादधिमासस्तथोत्तरः ॥ १॥".
अत्र प्राकृत इति प्रकृतिधर्मव्यवहारस्तरसम्बन्धी वर्षमध्येऽधिमासकद्वये सति प्रथमाधिकमासे प्रथम एव मासो व्यवहर्तव्यो न द्वितीयः, द्वितीयेऽधिमासे तु द्वितीय एवेत्यर्थः । इदं कालनिर्णयग्रन्थे । ब्रह्मसिद्धान्तेऽप्युक्तं"वर्षमध्ये मासद्वयवृद्धौ प्रथममासवृद्धौ कर्मकृदाद्योऽपरस्स्वशुभ' इति । अधिमासे चेति चकरात् क्षयमासोऽपि लग्ने त्याज्यः । स चैवं-यदैका सङ्क्रान्तिः शुक्लप्रतिपदि, अन्या च तस्मिन्नेव मासेऽमावास्यायां, नदा “द्विसङ्क्रान्तिवान् क्षयमासः." स च कार्तिकमार्गशीर्षपौधानामन्यतम एव स्यात् । उक्तश्च कालनिर्णयग्रन्थे
" असङ्क्रान्तिमासोऽधिमासः स्फुट स्यात्, द्विसङक्रान्तिमासः क्षयाख्यः कदाचित् । क्षयः कार्तिकादित्रये नान्यतः स्यात् ,
ततो वर्षमध्येऽधिमासद्वयं स्यात् ॥ १ ॥" तथा-- " यस्मिन्मासे न सङ्क्रान्तिः सङ्क्रान्तिद्वयमेव वा ।। ___ मलमासः स विज्ञेयः सर्वकार्येषु वर्जितः ॥ १ ॥” इति काठगृह्ये ।
नीचेऽस्तं वेति. लग्नांशयो थौ नीचस्थौ त्याज्यो। यदुक्तं प्रश्नप्रकाशे"त्रि द्वयरकगुणा३ऽर्धबलः४ खग, उच्चग वक्रर शीघ्रश्नीचस्थ" इति । अस्तमितस्य तु सर्वथा नास्ति बलं, केवलं बुधोऽस्तमित उदितो वा विवाहादिलग्नेषु सरशफल एव । उक्तञ्च" रविकिरणमध्यवर्ती चरति सदा सवितृमण्डले शशिजः ।।
तस्मान्न दोषकृत्स्यात् सोऽस्तं यातोऽपि भांशपतिः ॥ १॥" ___ ग्रहाणां सामान्यत उदयाऽस्तदिनसङ्ख्या चेयं ज्योतिषसारे"छस्सयसह ६६० छत्तीसा ३६ तिन्निबहुत्तर ३७२ दुएगपन्नासा २५१ । तिनिबयाला ३४२ अंगारयमाई उदयदिवस कमा ॥ १ ॥ सुन्नरवि १२० सोल १६ दसणा३२नंद ९ बयालीस-४२ पच्छिमत्थविणा। भोमाई तह पुव्वे बुह-सिम छत्तीस ३६ सम्सयरी ७७॥२॥"
Aho! Shrutgyanam