________________
पञ्चमो विमर्शः
पञ्चमो विमर्शः ॥ ५॥
॥ विलग्नद्वारम् ॥१०॥ अथ विलग्नद्वारमाहलग्नं विवाहे दीक्षायां प्रतिष्ठायां च शस्यते । रवी मकरकुम्भस्थे मेषादित्रयगेऽपि च ॥१॥
___ व्याख्या-दीक्षायामिति उपस्थापनाऽपि दीक्षक, प्रतिष्ठा जिनबिम्बप्रासादादीनां । चोऽनुक्तसमुच्चयार्थः, तेन राज्याभिषेकसूरिपदाभिषेकयोरपि ग्रहणं । शस्यते इति अवश्याऽऽदरणीयतया बहु मन्यते । एतानि कार्याणि शुद्धलग्नबलेनैव कार्याणि, नान्यथा । शेषकार्याणि तु दिननक्षत्रशुद्धौ सत्यां सुमुहूर्त्तमात्रेऽपि कार्याणीति भावः । ननु यदि जन्मलग्नाच्छुभाशुभं स्यात्तदा विवाहादिलग्नप्राबल्यविचारणैः किं प्रयोजनं ? अथ चैत्तेषामेव प्रामाण्यं तदा जातकादिशास्त्राणामानर्थक्यप्रसङ्गः । भैवं, यतो यजातकादौ शुभाशुभफलमुक्तं तस्य विवाहादिलमबलेनाधिक्यं न्यूनता वा स्यात् , यथा किल जन्मफलं शुभमपि दशाप्रवेशका. लीयतात्कालिकलग्ने दशापति-तन्मित्रादीनां लग्नादिस्थत्वेनेन्दोमित्रोच्चोपचयनि कोणादिस्थानवशाच्च शुभतरमुक्तं बृहजातके, तथाह्नि" पाकस्वामिनि लग्नगे सुहृदि वा ४वर्गस्य सौम्येऽपि वा,
प्रारब्धा शुभदा दशा त्रिदशषड्लामेषु वा पाक-पे । मित्रोञ्चोपचयत्रिकोणमदने पाकेश्वरस्य स्थित-श्चन्द्रः सत्फलबोधनानि कुरुतेपापानि चातोऽन्यथा ॥ १ ॥"
अत्र पाकस्वामिनीति दशापतौ । अपि च प्राणिनां जन्मलग्नमशुभमपि तत्कालविवाहादिलग्नबलाच्छुभमपीति सर्वमनवद्यम् ॥
"विवाहादौ स्मत: सौरः" इति रत्नमालाभाष्योक्तेलेग्नेऽर्कसङक्रान्तिप्रवृत्तानां सौरमासानां नियम उक्तः । अथ चान्द्रमासान्नियमयति
x वर्गेऽस्य वग्र्येऽस्येति च प्रत्यन्तरे. .
Aho! Shrutgyanam