________________
१८२
आरम्भ-सिद्धिः
अग्निवस्मसु सर्वेषु गृहे वन्युपजीविनाम् । धूमं नियोजयेत् किञ्चिछ्वानं म्लेच्छादिजातिषु ॥ ३ ॥ खरो वेश्यागृहे शस्तो ध्वाङ्क्षः शेषकुटीषु च । .. वृषः सिंहो गजश्चापि प्रासादपुरवेश्मसु ॥ ४ ॥"
. इत्यादि विवेकविलासे ॥ आयेषु विनिमयं नियमयति-- ध्वजः पदे तु सिंहस्य तौ गजस्य वृषस्य ते । एवं निवेशमर्हन्ति स्वतोन्यत्र वृषस्तु न ६७ ।।
व्याख्या-यत्र सिंहायः प्राप्तस्तत्र सोऽपि च दीयते, न दोषः, एकमग्रेऽपि । तौ गजस्येति गजाये प्राप्ते सोऽपि ध्वजसिंहावपि च देयौ । वृषस्य ते इति वृषाये प्राप्ते सोऽपि ध्वजगजसिंहाश्चापि देयाः | वृषस्तु नेति वृषाये एव प्राप्ते वृषायो देयोऽन्येष्वायेषु प्राप्तेषु तु वृषायो न देय इत्यर्थः ।। आयाधानयने करणमाह
आयो देान्ययो_तः फलमष्टहृतेऽधिकः। फलमष्टगुणं भा २७प्ते भं तत्राष्टहृते व्ययः॥१८॥
____ व्याख्या-दैान्ययोर्घातः फलं स्यात् । स एवाष्टहृताधिक आय: स्थादित्यन्वयः । भावश्चायं-दैर्ध्यादन्यो विस्तारः, घातो मिथस्ताडनं सगुणनमिति यावत् । ततश्चेष्टवास्तुनो देध्ये विस्तरेण गुणिते योऽङ्कः स्यात् स फलाख्य:, क्षेत्रफलमित्यपि तस्य नाम । अष्टेति स एल फलाङ्कोऽष्टभिर्भज्यते यच्छे षमधिकं तिष्ठति स इष्टवास्तुन आयः, एकशेषे ध्वजः, द्विशेषे धूम इत्यादि, शून्यशेषे तु ध्वाङ्काय इति । अयमनाम्नाय:-षड्भिर्यवैस्तावदङ्गुलं, चतुर्विंशत्यमुलैर्हस्तः, चतुभिहस्तैदेण्ड: इति, ततो यत्र दण्हैहस्तैर्वा मितं क्षेत्रं तत्र सर्वत्रामुलानि दत्वा हित्वा वाऽभीष्टायः प्रसाध्यः, यदि ह्यङगुलानि न दीयन्ते त्यज्यन्ते वा, किं तु निरुद्धा दण्डा हस्खा एव वा स्थाप्यन्ते तदा तेषां दण्डानां हस्तानां वाऽगुलरूपीकरणादन्वष्टभिर्भागे शून्यस्यैव शेषीभवनेन ध्वाभाय एव समेति, स चोत्तमानां गृहेष्वयुक्तः । अथ वासना-अगुलरूपयोर्दैर्ध्य विस्तारयोर्धाते क्षेत्रफलं स्यादिति, कोऽर्थः ? तस्मिन् क्षेत्रे सर्वसङ्ख्यया तावन्त्येवामुलानि स्युः आयाश्चाष्टैव, ततोऽष्टभक्ते क्षेत्रफले शेषाङ्कसमो ध्वजाद्यायः स्यात्, स च विषभ एवं श्रेष्ठो न तु समः । ततश्व हस्तानामुपर्यगुलानि दत्वा हित्वा वा तथा कथञ्चिद्दर्य पृथुःवे कल्पयेत् यथाऽष्ट भक्त क्षेत्रफले विषमाङ्क एवावशिष्यते । उक्तञ्च दैवज्ञवल्लभे"न हस्तमानेन गुणान्वितं स्याद्यदा तदा तद्गणितोक्तयुक्त्या । प्रदाय हित्वा यदि वागुलानि, प्रसाधयेत्क्षेत्रफलं शुभायम् ॥ १॥"
Aho! Shrutgyanam