________________
- १५८
आरम्भ-सिद्धिः
द्वितीयो नरोऽश्वाकृतिः कृष्णाजिनकम्बलभृत् दुर्धर्षो धनुष्मानताग्रनासः चतुष्पदोऽयं २ | तृतीय ऋक्षास्यो वानरचेष्टो नरः कूर्चीकुञ्चितकेशो दण्ड फलामिषहस्तः चतुष्पदोऽयं ३ | ५ | कन्यायामाद्यः स्त्री पुष्पपूर्णघटयुता मलिनाम्बरा गुरोः कुलं वान्छति १ । द्वितीयो नरो लेखिनीहस्त: श्यामो लोमशो वस्त्राङ्कितशिरा विस्तीर्णधन्वपाणिः २ | तृतीय: स्त्री गौरोच्चा सुधौताम्रदुकूलाच्छादिता कुम्भकडुच्छुकहस्ता देवालयं प्रवृत्ता ३ । ६ । तुलायामाद्यो नरस्तुळाहस्तश्चतुष्पथरथो मानोन्मानचतुरो भाण्डं विचिन्तयति १ । द्वितीयो नरो गृध्रास्यो घटान्वितः क्षुधितस्तृषितः खगोऽयं २ । तृतीयो नरः फलामिषधरो हैमतूणवर्मभृद्वानररूपो रत्नचित्रितो धनुर्हस्तो वने मृगान् भीषयते चतुष्पदोऽयं३ । ७ । वृश्चिके आद्यः स्त्री नग्ना स्थानच्युता सर्पनिबद्धपादा मनोरमाऽब्धितः कूलमायाति । द्वितीयः
भर्तृकृते सर्पावृताङ्गी कूर्मकुम्भाकृति स्थानसुखानि वान्छति २ तृतीयो नरः सिंहरूपश्चिपिट कूर्म तुल्यास्यः अयं कूर्मश्चतुष्पदश्च ३ । ८ । धनुषि आद्यो नर आयतधन्वपाणिर्नृमुखोऽश्वकायः चतुष्पदोऽयं १ । द्वितीयः स्त्री सुरूपाऽब्धिरत्नानि विघट्टयन्ती गौराङ्गी २ । तृतीयो नरो गौरो निषण्णो दण्डहस्तः कूर्चीकौशेयकचर्मवाही ३ । ९ । मकरे आयो नरो रोमशः सूकराकृतिः स्थूलदंष्ट्रो बन्धनभृत् रौद्रास्यः चतुष्पदोऽयं १ । द्वितीयः स्त्री श्यामा सालङ्कारा लोहाभरणभूषितकर्णी २ । तृतीयो नरः किन्नराङ्गस्तूणी कवची धनुष्मान् सकम्बलः स्कन्धे रत्नचित्रितं कुम्भं वहति ३ । १० । कुम्भे आद्यो नरश्वर्मभृद् गृध्रास्यः सकम्बलः स्वगोऽयं १ । द्वितीयः स्त्री मलिनाम्बरा शीर्षे भाण्डवाहिनी अग्निना दग्धें शकटे लोहानि गृह्णाति २ । तृतीयो नरः सिंहरूपश्च श्यामः सरोमकर्णः किरीटी त्वपत्रनिर्यासफलभृत् ३ । ११ । मीने आद्यो नरः स्रग्मौक्तिकशङ्खपाणि: साभरणो नौस्थोऽधि तरति १ । द्वितीयः स्त्री गौराङ्गी नौस्थाऽन्धितः कूलं याति २ । तृतीयो नरो नग्नो भीरुचौराग्निभ्यां व्याकुलितः सर्पावृताङ्गो तान्तिकस्थः अयं व्याकुलद्वेष्काणः ३ । इति १२ । एषां चिन्तानष्टादिप्रश्ने प्रयोजनं “द्रेष्काणैस्तस्कराः स्मृता " इति । रोगिप्रश्न "गृध्रकोलोरगभ्यं शैरुदितै रोगिणो मृतिरिति” । बन्धमोक्षप्रश्ने " धृतोरगे त्र्यंशे सशृङ्खलापाशो बन्धः" इत्यादि । यात्रायां तु यथोपयोगस्तथोक्तमेव । शुभनाथ इति द्वेष्णाणेशाः प्रागुक्ता एव । शुभेक्षित इति, यो द्रेष्काणो लग्नेऽधिकृतोऽस्ति तन्नामा राशिर्यात्राकुण्डलिकायां यत्र तत्र स्थितो यदि शुभग्रहैर्दृश्येत तदा स द्वेष्काण: शुभैर्दृष्ट इत्युच्यते ।
स्थापना यथा
Aho ! Shrutgyanam