________________
१५६
आरम्भ-सिद्धिः
अनयोरर्थः- अजवृषसिंहा धनुरपरार्धं मकराद्यार्धं च चतुष्पदाः, मिथुनकन्या तुला कुम्भा धनुराद्यार्धं च मनुष्याः, कर्कमीनौ मकरपश्चार्धं च जलचराः, सरीसृपो वृश्चिक इति । ततश्च सिंहं विनाऽन्ये मेषवृषवृश्चिक कुम्भा मानुषाणां वश्याः, जलचराः कर्कमकरमीना मनुष्याणां भक्ष्याः सिंहस्य वृश्चिकं विना सर्वे वश्याः । अन्यदिति वृश्चिकस्य सिंहोऽपि वश्यः । सर्वे पुंराशयः कन्याया वश्याः, धनुषः सर्वोऽपि वश्य इत्यादि । स्थलाम्बुसम्भूतेति, यदि द्वावपि राशी स्थलजौ जलजौ सरीसृपौ वा तदा द्वयोर्मध्ये यो बलिष्ठस्तस्येतरो वश्यः, यथा वृषस्य मेषो वश्यः, मकरस्य मीनकक वश्यौ, वृश्चिकस्यापरो वृश्चिको बलहीनत्वे सति वश्यः स्यात्, मेषद्वयवृषद्वयादीनां सम्भवेऽपि च वृश्चिकवदेव बलाधिक्यं विचार्य वश्यता भावनीया! समा संस्था इति, इष्टलग्नं किल दिवा स्याद्रात्रौ वा, तत्र दिवा समराशयो विषमराशीनां वश्या:, रात्रौ तु विषमराशयः समराशीनां वश्या इति । अस्य प्रयोजनं तु "यच्च वश्यं स्वलग्नेन्द्वोः " इति लोके वक्ष्यति ॥ जन्मकाले शुभैर्युक्ता द्वितीयास्तरणेश्च ये । निष्क्रूरा निर्विकाराश्च ते लग्ने राशयः शुभाः ॥ ३२ ॥
و
व्याख्या - द्वितीया इति येषां किल जातके वेशिसंज्ञा, "सूर्याद्वितीयमृक्षं बेशि : " इत्युक्तेः । निष्क्रूरा इति जन्मकाले येषु करग्रहो नाभूत् । निर्विकाराइति, क्रूरभुक्तराशिः सविकार, चन्द्रेण भुक्तस्तु निर्विकारः जन्मकाले ये राशय ईशास्ते यात्रालग्ने शुभाः ॥
यच्च वश्यं स्वलग्नेन्द्वोर्न च वश्यं द्विषस्तयोः । शत्रोरेवाष्टमं ताभ्यां लग्नं यातुर्जयावहम् ॥ ३३ ॥
व्याख्या --- यद्यात्रालग्नं सौवजन्मलग्नजन्मराइयोर्वश्यं स्यात् द्विषो जेतब्यस्य जन्मलग्नजन्मराश्योर्वश्यं च । तथाशत्रोरेव न तु स्वस्य ताभ्यां जन्मलग्नजन्मराशिभ्यां यदष्टमं स्यात्तल्लग्नं यात्रायां शुभम् ॥
इत्युक्तमष्टभिः श्लोकैर्यात्रा लग्नं । अथ “जत्ता छव्वग्गसुद्धीए " इति हर्षप्रकाशोक्तेर्यात्रा होरादिवर्गपञ्चक्रमाह
विमुक्ताकान्तभोग्यानि राश्यर्धान्युष्णरश्मिना । ऊर्ध्वतिर्यगधोमुख्यो होराः स्युरुदयावधि ॥ ३४ ॥
व्याख्या - या होराsर्केण भुक्त्वा मुक्ता सा ऊर्ध्वमुखी, भुज्यमाना तिर्यङ्मुखी, भोक्ष्यमाणा स्वधोमुखी, पुनस्तदग्रेतन्यस्तिस्रः क्रमादूर्ध्वतिर्यगधोमुख्यः पुनस्तथैव तिस्रः क्रमादूर्ध्वादि मुख्यः, एवं पुनः पुनरुदयावधीति सूर्योदयं यावत् । यद्वा उदयो लग्नं तत्राधिकृता होरेत्यर्थः तं यावत् एवं त्रिविधा होराः कल्प्याः । एवं चाहोरात्रे चतुर्विंशतिहोरात्मके त्रिविधहोराणामष्टाष्टा वृत्तय: स्युः ॥ फलमाह -
Aho ! Shrutgyanam