________________
१४६
आरम्भ-सिद्धिः
एवं गमनेको दक्षिण एव स्यादिति भावः । लल्लः पुनरपि चन्द्रार्कवारानुकूल्यमेवमाह -
""
रविशशिकरप्रदीप मकरादावुत्तरां च पूर्वी च । यायाच्च कर्कटादौ याम्यामाशां प्रतीचीं च ॥ १ ॥ अयनानुकूलयानं हि तमकेंन्द्रोर्द्वयार संपत्तौ ।
"
निशं प्रगृह्य यायाद्विपर्यये क्लेशवधबन्धाः ॥ २ ॥ अनयोरर्थः - यदाऽर्केन्दु मकरादिषट्के उत्तरायणे स्तः तदा पूर्वामुत्तरां च सर्वदा गच्छेत् । यदा च तौ कर्कादिषटके दक्षिणायने स्तस्तदा दक्षिणां पश्चिमां च सर्वदा गच्छेत् । सर्वदेति कोऽर्थ : ? दिवा रात्रौ चेति, अर्केन्द्रोरे कायनासंभवे तु यथासंख्यं दिवानिशं गच्छेत् । अयमर्थः यदाऽर्को मकरादौ तदा दिने उत्तरां पूर्वा च गच्छेत्, यदा ककोदो तदा दिने दक्षिणां पश्चिमां च गच्छेत् । एवं चन्दे मकरादिग्थे रात्रावुत्तरां पूर्वां च गच्छेत्, Caitr तु रात्रौ दक्षिणां पश्चिमां च गच्छेदिति । विपर्यये स्वशुभं कोऽर्थः ? रवीन्द्रोमकरादिस्थयोर्दक्षिणपश्चिमे यदि गच्छेत् कर्कादिस्थयोश्चोत्तरापूर्वे यदि गच्छेत्, तदा सूर्ये मकरादिस्थे दिवा दक्षिणपश्चिमे यदि गच्छेद्, चन्द्रे वा कर्कादिस्थे रात्रातरापूर्वे यदि गच्छेत्तदा यातुर्वधबन्धादिदोषाः ॥ रविचारमेव हंसचारेण विशिष्याह
हंसेऽन्तरा विशति दक्षिणतोऽथ पृष्ठ,
कृत्वा रविं प्रवहनाडिपदं पुरश्च ।
सिद्धये व्रजेदथ विजेतुमना विपक्ष-पक्षं
स्वतस्तु विदधीत विनाऽऽनपक्षम् ॥ १७ ॥
व्याख्या - अध्यात्मशास्त्ररीत्या हंसः प्राणवायुस्तस्मिन् विशति सति न तु निःसरति सति । यदाहुराध्यात्मिकाः
" पदशताभ्यधिकान्याहुः सहस्राण्येकविंशतिम् । अहोरात्रे नरे स्वस्थे प्राणवायोर्गमागमः ॥ १ ॥
""
प्रवहा प्रविशत्पवना पूर्णा नाडी नासारन्ध्ररूपा यस्य स्यात्तत्पदं वामं दक्षिण वाहिं पुरः कृत्वा च सिद्धयै कार्यस्येति शेषः । उक्तञ्च विवेकविलासे
66
दक्षिणे यदि वा वामे यत्र वायुर्निरन्तरः । तं पादमग्रतः कृत्वा निःसरेन्निजमन्दिरात् ॥ १ ॥ न हानिकलहोद्वेगाः कण्टकैर्नापि भिद्यते । निवर्तते सुखेनैव द्रोपद्रवर्जितः ॥ २ ॥
Aho ! Shrutgyanam